________________
अवयवः।
न्यते तेन च विशिष्टवैशिष्ट्यावगाहि मानान्तरमुत्था
हेतुत्वमिति नातिप्रमङ्गः, न्यायजन्यज्ञानस्य च प्रतिवादिपरामर्श प्रति तादृशशाब्दत्वेन हेतुत्वं अन्वय-व्यतिरेकाभ्यां तथैव कार्य-कारणभावावधारणदिति हृदयं। वाक्यपदं तादृशशाब्दज्ञाननिष्ठकार्यतानिरूपितकारणताया विषयविधयावच्छेदकलपर्याप्यधिकरणत्वखाभाय अन्यथा न्यायैकदेशेऽतिव्याप्तेः९) ।
(१) लक्ष्ये लक्षणं योजयति, 'प्रतिज्ञादौति प्रतिज्ञादिपञ्चवाक्यैरेकवाक्य- . या रकानुपूर्वीमत्त्वेन रूपेण यः खस्यार्थी निवृत्तिरभाव इति यावत्, तज्ज्ञानं जन्यते, 'तेन च' क्रमिकप्रतिज्ञादिपश्चगतेकानुपूर्व्यवच्छिन्नाभावकूटज्ञानेन च, विशिष्ठस्य तादृश-तादृशानुपूर्तीमत्त्वावच्छिन्नाभावीयत्वविशिश्व्याप्यत्वस्य घटपदत्वादिहेतौ वैशिष्ट्यावगाहि यन्मानं घटपदत्वं तादृश-तादृशानुपूर्व्यवच्छिन्नाभावकूटव्याप्यमित्याकारकं ज्ञानं तदुत्याप्यते जन्यते, 'तेन च' व्याप्यत्वबोधेग च, 'चरमपरामर्शः तादृश-तादृशानुपूर्बीमत्त्वावच्छिन्नाभावकूटव्याप्यघटपदत्ववान् इत्याकारको जन्यत इत्यर्थः ।
साम्प्रदायिकास्तु लक्षणस्थस्थानुमितियदस्य प्रकृतपक्षक-प्रकृतसाध्यककृतहेतुकानुमितिपरत्वं वसंयन्तो ग्रन्थमन्यथा व्याचक्षते, यथा प्रतिशादिपञ्चवाक्यरेकवाकातया ख-खघटकपदानामेकवाक्यत्ववपशेन ख-खार्थशिरज्ञानं समूहालम्बनरूपमेव जन्यते न तु मिथो विशिष्टवैशिध्यागाहिरूपं, उदाहरणस्यान्यत्रानन्वयित्वेन पञ्चभिः परस्परमेकवाक्यताबेरन्वयबोधस्य जननासम्भवात् , तेन च प्रतिक्षादिपञ्चकजन्यबोधेन च अशियस्य प्रकृतसाध्यीयत्वविशिष्ठस्य व्याप्यत्वस्य हेतौ वैशिध्यावगाडि मानं मानसात्मकं ज्ञानं तदुत्याप्यते जन्यते । न च न्यायजन्यबोधस्यव