________________
६८२
तत्वचिन्तामणौ
रणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः। प्रतिज्ञादिपञ्चवाक्यरेकवाक्यतया स्वार्थविशिष्टज्ञानंज
तुमितौ कर्त्तव्यायां खोत्तरोत्पन्नज्ञानानपेक्षत्वं, तथाच उपनयप्रयोज्यानुमितिकारणपरामर्मस्य खोत्तरोत्पन्ननिगमनसाध्याबाधितत्वज्ञानसापेक्षत्वात् नोपनयेऽतिव्याप्तिरिति भावः । अनुमितिचरमकारणात्मकशाब्दज्ञाने कृतेऽसम्भवः न्यायजन्यज्ञानस्य पक्षतावच्छेदकविशिष्टे साध्यव्याप्यवदभेदस्यैव विषयौकरणात् नामार्थयोर्भेदान्वयस्याव्युत्पन्नतया पक्षतावच्छेदकविशिष्टे साध्यव्याप्यवैशिट्यानवगाहित्वात् तादृशज्ञानस्थानुमितिजनकत्वाभावात् । न च तादृशपरामर्शजनकत्वमेवोच्यतां किं तब्ननकजनकत्वप्रवेशेनेति वाच्यं। तथाप्यसम्भवापत्तेः न्यायजन्यज्ञानस्य वादिवाक्यज्ञानजन्यत्वेनाप्रामाण्यज्ञानास्कन्दितत्वेन तेन विशिष्टवैशिष्यबोधात्मकतादृशज्ञानजननासम्भवात् अप्रामाण्यज्ञामानास्कन्दित-विशेषणतावच्छेदकप्रकारकनिश्चयात्मकं न्यायजन्यशाब्दज्ञानजन्यज्ञानान्तरमपेक्षणीयमिति ।
उपाध्यायास्तु तादृशपरामर्शप्रयोजकत्वं तादृशपरामर्शजनकत्वमेव तथाच न्यायजन्यज्ञानानन्तरोत्पन्नज्ञानादेवानुमितिरित्याहुः । __ यत्र समयवशेनायन्नाभास इत्यादिरूपकण्ठकोद्धारसहित एव न्यायप्रयोगः कृतः तत्र कण्टकोद्धारवाक्येऽतिव्याप्तिवारणय शाब्देति, तथाच तत्पदमहिना तादृशपरामर्श प्रति तज्जन्यज्ञानस्य शाब्दत्वेन । प्रयोजकत्वमित्यर्थः पर्यवस्थति, कण्टकोद्धारवाक्यस्य च योग्यताजानमात्रसम्पादकत्वात् योग्यताज्ञानस्य च भाब्दाशाब्दसाधारणेनैव