________________
तत्त्वचिन्तमयो वयबोधकत्वं योग्यताघटकोपस्थापकेन शब्देन विनासुपपद्यमानं तं कल्पयित्वा यचान्वयबोधं जनयति तय श्रुतार्थापत्तिः। द्वारमित्यादा पिधेहौतिशब्दकल्पन श्रुतार्थापत्तिरेव शब्दश्च यद्यपि श्रूयमाणाबाधितस्तथाप्यभिप्रायस्थः कल्पाते यथा गुरुमते स्वर्गकामा यजेतेत्यत्र साक्षात्साधनताबाधे परम्पराघटकस्यानुपस्थित्या परम्परासाधनताज्ञानविरहोयोग्यताज्ञानाभावात् प्रसिद्धपदसामानाधिकरण्यानुपपत्तिरिति यो
ज्ञाननिर्वाहेऽपि शब्दजन्योपस्थितिं विना रात्रिभोजित्वरूपस्य योग्यत्वस्य शाब्दबोधे भानासम्भवाच्छब्दः कल्यते तन्मते शब्दयोग्यताविषयकस्यैव शाब्दबोधस्य जनननियमादिति भावः। 'शब्देन विनेति शब्दव्यवहारं विनेत्यर्थः, 'अनुपपद्यमानमिति अनुपपन्नत्वेन ज्ञायमानमित्यर्थः, 'दारमित्यादाविति, एवमित्यादि, 'पिधेहौतिशब्दकल्पनमिति द्वारमितिवाक्यस्यापि पिधानविशेष्यकद्दारकर्मकत्वान्वयबोधजनकत्वं पिधेहौतिशब्दसमभिव्याहारं विनाऽनुपपन्नमिति ज्ञानात् पिधेहिशब्दकल्पनमित्यर्थः। ननु दारमिति वाक्यं पिधेहौतिशब्दवदिति ज्ञानमर्थपत्त्या जननौयं तच्च न सम्भवति पिधेहौतिशब्दस्य बाधितत्वादित्यत बाह, 'शब्दश्चेति, 'श्रूयमाणः' समभिव्याहारेण श्रूयमानश्च, 'बाधित इति नास्तीत्यर्थः, 'अभिप्रायस्थ इति द्वारमिति वाक्यं पिधेहौति शब्देन सहान्वयबोधं जनयत्वित्येता