________________
f
न मुक्त इत्यचापि दिवाभोजनस्य बाधाद्योन्यताघटकरात्रिभोजनस्याप्रतीतेः श्रतो योग्यताघटकापस्थितिं बिना श्रन्वयमलभमानमिदं वाक्यं योग्यताघटकरात्रिभोजमापपादकं रात्रौ भुक्त इति वाक्यं कष्पयित्वा तेन सहान्वयबाधं जनयति । न चैवं लाघवाद्राचिभाजनमेव कल्पयितुं युक्तं, शाब्दी धाकाङ्क्षा शब्देनैव प्रपूर्य्यतइतिन्यायेन शब्दोपस्थापितमादाय शब्दस्यान्वयबोधजनकत्वात् एवञ्च श्रूयमाणशब्दस्या
रूपवत्त्वस्य योग्यतात्वेन पौनत्वान्वये भोजित्वस्य योग्यतात्वेन पौनलावयेऽभो जित्वस्यायोग्यतात्वादिति भावः । 'दिवाभोजनस्य बाधादिति 'योग्यता घटकेत्यच हेतु:, 'योग्यताघटकेति योग्यतात्मकराचिभोजिवोपस्थितिं विनेत्यर्थः, 'श्रन्वयमलभमानमिति श्रन्वयबोधं जनयदित्यर्थः, 'ददं वाक्यमिति पौनो देवदत्तो दिवा न भुङ्क्ते इति वाक्यमित्यर्थः, 'रात्रिभोजनोपपादकमिति रात्रिभोजनोपस्थापकमित्यर्थः, 'तेन सहेति तदुपस्थापितरात्रिभोजित्वेन सहेत्यर्थः, 'अम्मयबोधमिति पोनो देवदत्तो दिवा न भुङ्क्ते किन्तु रात्रौ भुङ्क्ते इत्यन्वयबोधमित्यर्थः, तन्मते योग्यत्वस्य शाब्दबोधे भाननियमादिति भावः । 'लाघवादिति, शब्दं कल्पयित्वापि अर्थोपस्थिते रावश्यकत्वादिति भावः । ' शाब्दी ह्याकाङ्क्षति शाब्दबोधोपयोगिनी पदार्थोपस्थितिः शब्देनैव जन्यत इति नियमेनेत्यर्थः तथाच केवलार्थकल्पनेन योग्यता
,