________________
पर्यापति।
यतीति चेत्। न। मयरसत्यं साधिकरणं हत्यत्वादितिः सामान्यतोदृष्टं प्रसिद्घाधिकरणबाधसहकृतं प्रसिद्धेतरं पर्वतमधिकरणमादाय नृत्यज्ञानं जनयति। यहा पर्वतेतरे न नृत्यतीतिशब्देन नृत्याभावबोधानन्तरं मयूरोसत्यतीतिशब्दाज्जायमानं ज्ञानं पर्चतन्त्यं गोचरयति प्रसिद्धविशेषबाधसहकृतसामान्यज्ञानजनकप्रमाणस्य प्रसिद्धेतरं पर्वतमधिकरणविशेषमादाय जानजनकत्वनियमात्। अत एवानित्यज्ञानबाधानन्तरं क्षित्यादैा ज्ञानजन्यत्वं सिद्धनित्यत्वमादाय
यतौति समाधत्ते, 'अधिकरणं विनेति, 'अनुपपद्यमानं' अनुपपनत्वेन ज्ञायमानं, 'नृत्यं नृत्यनित्यत्वमित्यर्थः । 'नृत्याभावबोधानन्तरमिति पर्वतेतरनृत्याभावबोधानन्तरमित्यर्थः । ननु सामान्यतोदृष्टेन माधिकरणकत्वानुमितावपि पर्वते नृत्यतीत्येवमाकारकबुद्धिर्न सिद्वैव अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमात् एवं मयूरो नृत्यतीति शब्दात् पर्वतेतराधिकरणकनृत्यबाधमहकारेण नृत्यविशेषसिद्धावपि नृत्यस्य पर्वतवृत्तित्वं न सिद्धं तदुपस्थापकपदाभावादिति, मैवं, गुरुमते इतरबाधसहकारेण पदानुपस्थितमपि शाब्दबोधे प्रकारौक्ष्य भासते इति तन्मतेनैव तन्मतनिराकरणत्, स्वमते लाह, 'यदेति, 'अन्वय-व्यतिरेको पर्वतमृत्यं गोचरयतीत्यनुषज्यते । न चैवं मयूरः पर्वते नृत्यतीति मयूरविशेष्यकप्रतीतिर्न स्थान