________________
तत्त्वचिन्तामयी एव विशेष्यासन्निकर्षात्तृतीयलिङ्गपरामर्शोऽपि न प्रत्यवेण । न च व्यतिरेकव्याप्ति-गृहनिष्ठाभावयो नं सहकार्यासाद्य मनसैव जन्यत इति वाच्यं । सहकारिणएव मानान्तरत्वप्रसङ्गात्। अथ व्याप्तिज्ञानानन्तरं स्मर्यमाणधूमात् कथमनुमितिः उक्तन्यायेन तचापि लिङ्गपरामर्शभावादिति चेत्, न कथञ्चित, कथं तर्हि वहिचानं पक्षधर्मधूमस्मृतिसहितात् धूमा वहिं विना मास्तीत्यनुपपत्तिज्ञानादिति गृहाण, अत एव दृश्यमानाधूमा वहिं विनानुपपन्न इति यदा ज्ञायते तदार्थापत्तिरेव यदा त्वनुपपत्तिज्ञानं विना व्याप्यत्वेन प्रतिसन्धीयते तदानुमानं त्वयापि तत्र त्रिविधानुमानस्वीकारात् तस्माद्यतिरेकव्याप्तिमुपजीव्य जीविदेवदत्ताभावो वहिःसत्त्वं कल्पयति । उच्यते। देवदत्तासविकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वं प्रत्यक्षेण
कोऽभाव इति प्रत्यक्षमित्यर्थः, अन्यथा षष्ट्यर्थप्रतियोगित्वस्य संसर्गविधया भानात् लिङ्गतावच्छेदकौमृतप्रतियोगित्वानुपस्थितौ कथमनुमानं न स्यात् । न चैवं यत्र नेह देवदत्त इति संसर्गविधयेव प्रतियोगित्वभानं तचानुमानासम्भवादापत्तिरिष्यतइति वाचं । अर्थापत्तावपि वहिःसत्त्वं विना रहनिष्ठाभावप्रतियोगित्वस्थानुपलधिमिकेति प्रतियोगित्वत्वावच्छिनप्रतियोगियोपस्थितिं विना