________________
[
१]
अथानुपपत्तिकरणकापत्तिः।
स्थादेतत् मा भूत् संशयः करणमर्थापत्तावनुपपत्तिस्तु स्यात् तथाहि जीवी देवदत्तो गृहे नास्तीति जाने सति वहिःसत्त्वं विना जीवतागृहासत्त्वमनुपपन्नमिति ज्ञानानन्तरं वहिरस्तौति धौरस्ति तवान्वयव्यतिरेकाभ्यामनुपपत्तिज्ञानं करणम् । न च देवदत्तो पहिरस्ति विद्यमानत्वे सति गृहासत्त्वात् घटवदित्यनु
अथानुपपत्तिकरणकार्थापत्तिः। 'संशयकरणकार्थापत्तिं निराकृत्यानुपपत्तिकरणकार्थापत्तिमागते, 'स्थादेतदिति, 'अनुपपत्तिरिति ग्रहे नास्तौति ज्ञानमित्यर्थः, 'जीवतो स्टहासत्त्वमिति जीवित्वविशिष्टं ग्टहासत्त्वमित्यर्थः, व्याप्तिप्रभवेति, 'याप्तिप्रभवात्' सामान्यतोव्याप्तिप्रभवात्, 'अनुमानादिति देवदत्तोवहिरस्ति विद्यमानत्वे सति ग्टहासत्त्वादित्यनुमानादित्यर्थः, पूर्व विद्यमानत्वे मति तद्ग्रहामत्त्वात् तदहिमबितिविशेषतोव्याप्तिरिदानौन्तु सामान्यतोव्याप्तिरिति भेदाविकल्पः। विशेषव्याप्तिमूलकमनुमानं दूषयति, 'हेत-साध्ययोरिति यथोक्तहेतु-माध्ययोरित्यर्थः, सामान्यतोव्याप्तिमूलकमनुमानं दूषपति, 'सामान्यत इति, 'अनुमाने' अनुमितिकरणे, 'उपसंहां