________________
पर्यापत्तिः।
(१ कस्य वस्तुगत्या अप्रमाणत्वमेव विनिगमकत्वमिति,९) तनुच्छम, अप्रमाणस्यापि प्रमाणत्वेन ज्ञानात्, तर्कादिभिर्विशेषदर्शनं विनायथोक्तसंशयानन्तरं वहिरस्तौति जानमसिद्धमतान फलबलेन तथाापत्तिकल्पनं । किञ्च मृते गृहस्थिते वहिःस्थिते तादृशसंशयादेव भाववति विशिष्टप्रकारकत्वरूपाप्रमात्वदयकल्पनापत्तिरिति भावः । 'विभिष्टाभावस्येति विशिष्टाभावव्यवहारविषयस्येत्यर्थः, इदमापाततः विशिष्टाभावस्थातिरिक्तस्थाभावेऽपि विशिष्टं नास्तौतिप्रतीत्या विशिष्टस्य प्रतियोगित्वावगाहनाद्विशेषणभावस्यैव विशिष्टप्रतियोगिकत्वाभ्युपगन्तव्यत्वात् विशिष्ट प्रकारकत्वरूपाप्रमात्वमादायाप्रमालदयकल्पना भवत्येवेति ध्येयं ।
यदि ग्टहान्यावृत्तित्व-शतवर्षजीवित्वयोः संशयाविशेषेऽपि जीवित्वोपपादक वहिःसत्त्वमेव कल्यं न तु सहान्यावृत्तित्वोपपादक मरणमित्यत्र तर्काविनिमक उच्यते तदा त्वलातादेव देवदत्तो जीवन-मरणाद्यन्यतरप्रतियोगौति सामान्यतोदृष्टात् जीवित्वं शिक्षाविशेषणं निश्चित्यानुमानादेव वहिःमत्त्वज्ञानं स्यादिति त्वया वाच्यं, न चैवं, किन्तु यथोकसंशयस्यायमेव स्वभावोनिश्चयं विनापि धर्मिणि वस्तुगत्या अबाधितत्त्वं यत्तदेव कल्पयति न तत्र बाधितत्वमिति कल्पनेति केचिन्मीमांसका वदन्ति, तन्मतमुपन्यस्थति, 'अन्ये विति, 'जीवी ग्रह एवेति गतवर्षजीवित्वे मति ग्रहान्यावृत्तिरित्यर्थः,
(१) पप्रमाणमेव विनिगमकमिति ध।