________________
पर्यापतिः। तवं न निवर्तते। किश्चैवमर्थापत्तावपि तहिरोधेन न सहकारी स्यात् । यदुक्तं मरणकल्पने शतवर्षावच्छिन्नजीवी गृह रवेत्यस्यापि बाधइति तच विशिष्टबाधो न विशेष्यबाधात मरणेऽपि जीवो यह रवेत्यस्य विशेष्यस्याबाधात् किन्तु विशेषणबाधात् सप शतवर्षजीवित्वबाध एव । विशेषणाभावायत्तो विशिटाभावोऽप्यस्तौति चेत्। न। विशेष्यवति विशिष्टाभावस्य केवल विशेषणभावात्मकत्वात् विशिष्टस्यातिरिक्तस्यानभ्युपगमात्।
व्याप्यत्वेन धर्मान्तरनिश्चय एव प्रतिबन्धकः स्थादित्याशङ्कते, 'न 'चेति, 'प्रमाणविरोधेन' प्रमाणन्तरविरोधेन मरणव्याप्यत्वेन मेयत्वादिलक्षणयत्किञ्चिद्धर्मान्तरस्य निश्चयेन प्रतिबन्धेनेति यावत्, यद्यपि मरणव्याप्यत्वेन यत्किञ्चिद्धर्मान्तरस्य निश्चयो न सर्वच, तथापि यत्र तदवतारस्तवार्थापत्तिरायास्थतौति भावः । 'विशेषपरत्वाभावेनेति विशेषप्रकारकानुमितिजनकत्वाभावेनेत्यर्थः, 'अविरोधात' मरणव्याप्यवत्तानिश्चयस्याप्रतिबन्धकत्वात्, ‘तदधिकषणवादेवेति तदपेक्षया सामान्यतोदृष्टस्याधिकबलत्वादेवेत्यर्थः, तर्कण तत्र प्रामाण्यमंशयादिति भावः । 'अन्यथेति तर्कस्याधिकबखत्वासम्पादकत्वे इत्यर्थः, 'तद्विरोधेनेति वहिःसत्त्वाभावव्याप्यत्वेन यकिचिद्धर्मनिश्चयस्य प्रतिबन्धकत्वेनेत्यर्थः, “किञ्चत्यापाततः, वहि: