________________
पर्यापत्ति।
तुल्यत्वादिति चेत्, तईि पक्षधर्माताबलाहिशेषसिद्धिः कापि न स्यात् सर्वच सामान्यमुखप्रवृत्तप्रमाणस्य विशेषपर्यवसानेऽन्यसाधर्मेण सत्प्रतिपक्षसम्भवात, श्रमयोजकत्वान्न विपरीतसाधनमिति तुल्यं नियमग्राहकस्याप्रयोजकत्वात् जीवनग्राहकस्य तु सामान्यतादृष्टस्य ज्योतिःशास्त्राद्यथार्थत्वमेव विपक्षबाधकं व्याप्तिग्राहक
मति ग्टहावस्थानस्याप्रामाणिकत्वादित्याकारकमिति भावः। 'जीवनग्राहकस्यैवेति देवदत्तः गतवर्षजीवी केन्द्रस्थहस्पतिप्रामाणिकत्वादित्यादेरेवेत्यर्थः, 'मत्प्रतिपक्षितत्वमिति(१) । ननु जीवनग्राहकस्य केन्द्रस्थ वृहस्पतिकप्रामाणिकत्व-केवलप्राणिवादिरूपतया भूयस्खेन बलवत्त्वमित्यत श्राह, 'एकेनेति, विशेषमात्रे जीवित्वप्रकारेण जौविबानुमितौ हेतुत्वेनेत्यर्थः, 'भूयसामपौति। तौति, 'विशेषपर्यवसानइति लाघवादिसहकारेण विशेषप्रकारेणनुमितिजनन इत्यर्थः, 'अन्यसाधणेति पर्वतो न पर्वतीयवहिमान् पर्वतीयवझिमदन्यत्वात् इति मत्प्रतिपक्षसम्भवादित्यर्थः, अभिसन्धिमुद्घाटयति, 'अप्रयोजकवादिनि, 'अप्रयोजकत्वात्' अनुमितिप्रयोजकरूपशून्यत्वात् हेतौ पक्षधर्मतानिश्चयविरहात् इति यावत्, 'न विपरोतसाधनमिति न पक्षधर्मताबललभ्यविशेषविरहव्याप्यवत्तानिश्चय इत्यर्थः, 'तुल्यमिति,
(१) एतेन 'सत्प्रतिपक्ष' इत्यत्र 'सत्यतिप्रतिपक्षिवत्वमिति कस्यचि.
भूगपुस्तकस्य पाठोऽनुमौयत इति ।