________________
নখিলনায়ী
दनुमानादेव वहिःसत्त्वसिद्धिः। अथ लाघवसाचिव्थात् सामान्यतादृष्टस्यापि विशेषविषयत्वात् नियमग्राहकप्रमाणोत्यापितलिङ्गकमरणानुमानेन जीवनप्राहकस्यैव सत्प्रतिपक्षत्वम् एकेनापि भूयसामपि प्रतिबन्धसम्भवात् । न च तर्कात्सामान्यतादृष्टस्य बलवत्वं, व्याप्ति-पक्षधर्मातेहि बलं तच्च तुल्यमेव ज्ञातं लाघवाख्यतर्कस्य विशेषमावपर्यवसायकत्वेन व्याप्तिग्राहकत्वस्य
निश्चयस्यासत्त्वमेवामिद्धं तस्य पुनरनुसन्धानं विनापि यथोकसामग्रौप्रभवसंशयानन्तरं लाघवावताराबहिःसत्त्वनिश्चयस्यानुभवसिद्ववादित्यस्वरमादाइ, 'अपि चेति, ‘सामान्यतोदृष्टमिति नौवित्वसंभयानन्तरोत्पन्नमित्यर्थः । न च प्रामाणिकप्रतिसन्धानाभावेऽपि यथोक्रमामग्रौप्रभवसंशयानन्तरं वहिःसत्त्वामिद्धेरापत्तिरतिरिच्यते इति वाच्यं । केन्द्रस्थितवृहस्पतिकत्वस्य घटादिसाधारणतया प्रामाणिकलोपस्थिति विनापि यथोकसामग्रौघटकस्य शब्दत्वनिषयस्यैवासम्भवादिति भावः । 'विशेषविषयत्वादिति जीवनत्वप्रकारेण जीवनविषयकवादित्यर्थः, अन्यथा अन्यतरत्वरूपेण जीवनविषयकवे मरणानुमानेन न सत्प्रतिपक्षः सम्भवति भिन्नप्रकारकत्वेन विशेषकवाभावादिति भावः । 'नियमयाहकप्रमाणेति ग्टहान्यावृत्तित्वनिचयनिचितलिङ्गपरामर्थनेत्यर्थः, तच्च देवदत्तोमतः सहान्यावृत्तिले (१) प्रतिषेधसम्भवादिति ।