________________
पर्यापत्तिः। .. . चेत् । न। अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमेन तत्प्रकारकबुडेय॑तिरेकिसाध्यत्वात् व्यतिरेकिणेऽप्यन्या सामर्थ्यावधारणेनोपायान्तरस्यादोषाच। अपि च देवदत्तो जीवन-मरणान्यतरप्रतियोगी प्राणित्वामहदिति सामान्यतादृष्टं लाघवसहकारेण जीवनप्रतियोगिन्वं विषयौकरोति तथाच लिङ्गविशेषणनिश्चया
मंगयाहितेत्यर्थः, 'अनिर्धारितेति सामान्यतोऽन्यतरनिश्चयस्थाप्रामाण्यानुमितिमित्यर्थः, 'पुनरिति जीवनसंशयानन्तरं पुनरनुमन्धीयमानमित्यर्थः, 'विरुद्धार्थग्राहकत्वं विना' तज्ज्ञानं विना, 'वहिःसत्त्वकल्पनेऽपौति, षष्ट्यऽर्थ सप्तमी, 'अबाधप्रसङ्गादिति 'बाधः' असत्त्वं, तदभावप्रसङ्गात् सत्त्वप्रसङ्गादिति यावत्, 'तदनुसन्धान विना', तस्थासत्त्वन्तु अनुभवसाक्षिकमिति भावः । ‘पर्यवसन्त्रमपौति विशिएमपौत्यर्थः, 'अष्टद्रव्यत्तित्वबाध इति अष्टद्रव्यदृत्तित्वाभावनिश्चयइत्यर्थः, 'व्यतिरेकिणेति इच्छा अष्टद्रव्यातिरिकद्रव्याश्रिता अष्टद्रव्यानाश्रितत्वे सति गुणत्वादिति व्यतिरेकिणेत्यर्थः, 'तमिद्धेरिति अष्टद्रातिरिक्तद्रयमिद्धेः सम्भवादित्यर्थः, 'तत्प्रकारकेति अष्टद्रव्यातिरिक्तद्रव्यत्वप्रकारकेत्यर्थः । ननु लाघव-बाधसहकारेण व्यापकतानवच्छेदकमपि प्रकारौक्ष्य भासते ईश्वरानुमानादौ तथा दर्शनादित्यत आह, 'व्यतिरेकिणोऽपौति व्यतिरेकव्याप्तिज्ञानस्यापौत्यर्थः । ननु विरुद्धार्थग्राहकत्वप्रतिसन्धानं विना वहिःसत्त्व
84