________________
तत्त्वचिन्तामणी
तरं तदनुसन्धानमसिद्धं गृहनियमग्राहकस्य जीवनग्राहकविरुद्धार्थग्राहकत्वं विना(१) वहिःसत्त्वकल्पनेऽप्यबाधप्रसङ्गात्। अथ यदि पर्यवसन्नमपि प्रमाणं पुनरनुसन्धीयमानं सहकारिविशेषात् फलान्तरजनक सदेच्छा द्रव्याश्रिता कार्यात्वादिति सामान्यता दृष्टद्रव्याश्रितत्वानुमिता पश्चादष्टद्रव्यत्तित्वबाधे व्यतिरेकिणात्मसिविरिति भज्येत अष्टद्रव्यत्तित्वबाधसहचतात् सामान्यतोदृष्टादेव पुनरनुसन्धीयमानात् तत्सिद्देरिति
चेति, 'इयोरिति जौवनग्राहकप्रमाण-ग्रहान्यावृत्तित्वग्राहकप्रमाणयोरित्यर्थः, 'जौवन-मरणेति, ‘मरणपदं मरणनिर्वाह्यग्टहान्यात्तित्वपरं, जौवित्व-टहान्यावृत्तित्वनिश्चयोपस्थितत्वादित्यर्थः, तथा चाग्रहौताप्रामाण्यकजीवित्वनिश्चयसत्त्वात् कथं तमंशय इति भावः । इदमापाततः यत्र इयोः प्रामाण्यं पूर्वं न निश्चितं तत्र मामान्यतोदृष्टं प्रति प्रामाण्यसंशयादिसम्भवादिति ध्येयं । नन्वेतावता भवत्वप्रामाण्यमंशयात् पूर्व सामान्यतोदृष्टाभावः तथापि तस्यानयोरेकमप्रमाणमिति ज्ञानं जनयित्वा विनाशात् तननितप्रामाण्यसंशयाहितजीवित्वसंशयानन्तरं तर्कावतारे वहिरस्तौति ज्ञानं स्यात् तत्र जीवित्वसंशयस्य कारणत्वादित्याशङ्कते, 'अथेति, 'पर्यवसितत्वात्' विनाशात्, “नियमदयेति निश्चयदयप्रामाण्य
“ (१) विरुद्धार्थग्राहकत्वानुसन्धान विनेति क• ख. ।