________________
पर्यापत्तिः ।
प्राथमिकवहिःसत्त्वज्ञानमर्थापति विना । न च गृहनियमग्राहिणि तुल्यबले जागरूके कथमपित्त्यापि वहिःस्वत्त्वज्ञानमिति वाच्यं । तर्कसहकारेणापत्तेर्बलवत्त्वादहिःसत्वज्ञानमुत्याद्य गृहनियमग्राहकमानबाधादिति चेत् । न। तर्कसहकारेण सामान्यतादृष्टस्य बलवत्त्वेन गृहनियमग्राहकबाधसम्भवात, तस्माद्यथातसंशयदशायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति तर्कानन्तरमेव वहिःसत्त्वज्ञानमित्यविवादं, तत्र कल्पनीयप्रमाणभावे यथोक्तसंशये तर्कस्य न सह कारित्वं गौरवात् किन्तु नियमग्राहकबाधद्वारा वहिः
देवदत्तोग्टह एवेतिनिश्चयेऽपि गतवर्षजीवित्वस्य देवदत्ते प्रकारकत्वादिति भावः। 'निष्परिपन्थौति 'प्रतिबन्धकासमवहितेत्यर्थः, जौवमप्रमाणात्' केन्द्र स्थवृहस्पतिकत्वादिनिष्ठप्रमात्मकजीवित्वव्याप्तिनिवयात्, 'जीवित्वनिश्चये' जीवित्वमिद्धौ, 'वहिःसत्वानुमानात्' वहि:सत्त्वस्यानुमानप्रमाणसिद्धृत्वात्, 'एकप्रमाणबाधेवेति ग्टहान्यावृत्तित्वनिश्चयस्यैवाप्रमात्वं स्थादित्यर्थः, 'परम्परेति ग्टहान्यावृत्तिवनिश्चयमित्यर्थः, 'जीवनप्रमाणं' प्रतवर्षजीवित्वं, 'बाधे' अप्रमालनिधये, 'जौवनप्रमाणदिति । 'वहिःसत्त्वज्ञानं विनेति देवदत्ते वश्विनिश्चय विनेत्यर्थः, 'बाधितुमिति अप्रमात्वेन निश्चितमित्यर्थः, ग्टहनियमनिश्चयस्याप्रमात्वं हि वहिःसत्त्ववति देवदत्ते सहान्यावृत्तित्वप्रकारकत्वं