________________
488
चिन्ताम
च वस्तुगत्या यः साध्याभावस्तयाप का भावप्रतियोगिमत्तया ज्ञानं मृग्यत इति वाच्यं । व्यतिरेक्याभासानुपपत्तेरिति चेत् । न । येोऽभावा यस्य भावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः पक्षे साध्यत इत्यनुगतानतिप्रसक्तस्य गमकतौपयिकत्वात्, 'श्रयश्च व्यतिरेकिप्रकारः स्वार्थ एव परं प्रति साध्याप्रसिद्ध्या प्रतिज्ञाद्यसम्भवादिति सर्व्वं समञ्जसम् ) ।
इति श्रीमङ्गेापाध्यायविरचिते तत्त्वचिन्तामणैौ अनुमानाख्यद्वितीयखण्डे केवलव्यतिरेक्यनुमानसिवान्तः, सम्पूर्णमिदं केवलव्य तिरेक्यनुमानं ।
वच्छिन्नस्य भेदस्य च खण्डशः प्रसिद्धिसत्त्वेन विशेष्ये विशेषणमिति न्यायेन पचविषेष्यक-साध्य विशेषणकज्ञानस्यापि सम्भवादिति चेत् । म । भेदत्वरूपेण पृथिवीतरत्वावच्छिन्न प्रतियोगिताकभेद व्यक्तेर्ज्ञानाभावदशायामस्याभिधानात् तज्ज्ञानदशायान्तु पचविशेव्यकमपि सम्भवतौति ध्येयं । 'व्यतिरेक्याभासेति वस्तुगत्याधेयत्वादेरभावस्थाप्रसिद्या व्यतिरेकव्याप्तिज्ञानान्मेयत्वाननुमानापत्तेरित्यर्थः ।
इति श्रीमथुरानाथ-तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्ये केवलव्यतिरेक्यनुमानसिद्धान्तरहस्यं, सम्पूर्णमिदं केवस्तव्यतिरेकानुमान रहस्यं ।
(१) सर्व्वमवदातमिति घ० ।