________________
केवलयतिरेक्यनुमान।
१०५
प्रकारावच्छिन्नत्वस्य व्यापक समर्थप्रवृत्तिजनकत्वाभावोऽप्रमायां गृहोताऽतो विवादाध्यासितानुभवे समर्थप्रवृत्तिजनकत्वेन व्यधिकरणप्रकारावच्छिन्नत्वस्याभावः सिद्ध्यति व्यधिकरणप्रकारानवच्छिन्नत्वमेव प्रमात्वम् । ननु साध्याप्रसिद्धौ कथं साध्यविशिष्टज्ञानं विशेषणजानजन्यत्वादिशिष्टज्ञानस्येति चेत्। न। पक्षे साध्यानुमितिसामग्रीसत्त्वात्पक्षविशेषणकः साध्यविशेष्यकरव प्रत्य जायते भूतले घटो नास्तीत्यभावविशेष्यकप्रत्ययवत्र) तथापि साध्याभावव्यापकाभावाभावरूपहेतुमत्तया पक्षज्ञानं व्यतिरेकिणि गमकतापयिकं । न च साध्यप्रसिद्धि विनापि तादृशप्रतिसन्धानं सम्भवति, न तथाच तत्र हेत्वभावे प्रतियोगिव्यापकताज्ञानमेव हेतुरिति भावः । 'व्यापकाभाववत्तयेति व्यापकाभावत्वरूपेण व्यापकाभाववत्तया जाने इत्यर्थः, 'तथाहौति तथाचेत्यर्थः, 'दतरस्य जलादेरिति तादाम्यसम्बन्धेनेत्यादिः। ‘पचविशेषणक इति पृथिव्यां पृथिवीतरभेद इत्याकारकः प्रत्ययो जायत इत्यर्थः । नन्विदमपि ज्ञानं न सम्भवति पृथिवीतरत्वावच्छिन्न । गोगिताकभेदत्वस्य विशेष्योभते भेदे विशेषणतया तज्ज्ञानाभावात् । न चेतरस्य भेदत्वस्य च खण्डमः प्रसिद्धिसत्त्वेन विशेष्ये विशेषणमिति न्यायेन तादृशधौसम्भव इति वाच्यं । तथा मति पक्षविशेषणकपर्यन्तानुधावनवैयर्थ्यात् इतरत्वा(१) अभावविशेष्यकप्रत्यक्षवदिति घ.।