________________
केवचयतिरेक्यनुमानं ।
व्याश्रितत्वप्रकारिका स्यात् अनुमितेर्व्यापकतावच्छेदकमाचप्रकारकत्वनियमात् न त्वष्टद्रव्यातिरिक्तद्रव्यहत्त्वप्रकारिका तस्य पूर्व्वमप्रतीतत्वेन प्रकारत्वासम्भवादिति तत्प्रकारिकानुमितिर्व्यतिरेकिणैव । श्रनाद्यनन्तह्यणुकादियावत्पक्षौकरणेऽनाद्यनन्ततावदुपादानगोचरापरोक्षज्ञानत्वमेव नित्य सर्व्वविषकत्वमेतदन्य नित्यसर्व्वविषयत्वं व्यतिरेकिण एव सिद्ध्यति, पक्षधर्म्मताबलेनापि व्यापकतावच्छेदकप्रकारेण साध्यसिद्धिर्भवति न तु साध्यगतविशेषप्रकारिका अतिप्रसङ्गात् । नन्वष्टद्रव्यानाश्रितेच्छा द्रव्याश्रितेति यदि साध्यते तदाष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमन्तरेण प्रतिज्ञार्थ एव नोपपद्यते, सत्यम्, एवमप्यष्टद्रव्यानाश्रितेच्छायां द्रव्याश्रितत्वं
(12
व्यावृत्ताविति अत्र द्रव्यानाश्रितत्वे सति गणत्वस्य हेतोर्व्यावृत्तादवित्यर्थः, ‘साध्य-तदभावोभयसाधकत्वेनेति प्रकृतहेतौ साध्य- तदमावोभयव्याप्तिनिश्चायकत्वेनेत्यर्थः, 'साध्याभावसाधकत्वं' साध्याभावयाप्तिनिश्चयः, 'साध्यसाधकत्वे' साध्यव्याप्यले, 'तत्सत्त्वादिति अनुन्यूलतर्कसत्त्वादित्यर्थः, अष्टद्रव्यानाश्रितस्य तदतिरिक्रद्रव्यवृत्तित्वं “वेना द्रव्याश्रितत्वस्यैवानुपपत्तेरिति भावः । 'एकचेति एकमाचे
इत्यर्थः, 'सुवर्णतैजसवेति सुवर्ण तेजः श्रत्यन्ताग्निसंयोगेनामुच्छिद्यहिमाद्रवत्वाधिकरणत्वादित्यचेत्यर्थः । 'अष्टद्रव्यबाधेति पृथिव्याद्यष्ट