________________
18.
सावचिन्तामनी
सियतु तस्याष्टद्रव्यातिरेक्यं कुतः सिद्धयेत् । अथ सामा.. न्याव्यभिचारमादाय मानान्तरोपनीतं तत्तदन्यत्वमुपजीव्याष्टद्रव्यान्यद्रव्यत्तितैवेच्छादेः परिच्छिद्यते ज्ञानान्तरोपस्थापितविशेषणविशिष्टज्ञानस्य सुरभि चन्दनमित्यादौ दर्शनादिति चेत् । न। मानान्तराबियमेनानुपस्थितेः।
ये चेच्छाश्रये पृथिव्यादिभिन्नत्वं न जानन्ति इच्छायाश्च पृथिव्याद्यनाश्रितत्वं न जानन्ति तेषामप्यनुमानादित्यप्याहुः।
द्रव्येषु इच्छाधारताबाधानन्तरमित्यर्थः, 'गुणत्वादेवेति इच्छा द्रव्या श्रिता गुणत्वादित्यनुमानेनेत्यर्थः, ‘पञ्चधर्मताबलादिति अष्टद्रव्य वृत्तित्वबाधसहकारादित्यर्थः, तथाच किं व्यतिरेकिणेति भावः । 'बाधानन्तरं हौति बाधानन्तरमनुमितिरष्टद्रव्यातिरिक्तद्रव्यविषयापि द्रव्याश्रितत्वप्रकारिका स्थादित्यर्थः, 'व्यापकतावच्छेदकेति येन रूपेर' व्यापकत्वग्रहस्तेनैव रूपेणनुमितौ भाननियमादित्यर्थः, यथाश्रु कूटलिङ्गस्य स्थले व्यभिचारात्, ‘पूर्वमप्रतीतत्वेनेति पूर्व व्यापकता वच्छेदकतया अप्रतीतत्वेनेत्यर्थः। नन्वेवमीश्वरानुमाने नित्यत्वं सर्ववि षयकत्वञ्च ज्ञाने कथं सिद्ध्यतीत्यताह, 'अनाद्यनन्तेति । 'सामान्या' व्यभिचारमादायेति गुणत्वनिष्ठद्रव्याश्रितत्वसामान्यव्याप्तिधानमादायेत्यर्थः, परिच्छिद्यत इति इच्छा द्रयाश्रिता गुणवादिति प्राथमिक