________________
बेवण्यापरवानुमान। संयोगविरहोऽपि सुग्रह। यहा जीवच्छरौरं तदषयमा वा आत्मभिन्नत्वे सत्यात्मविशेषगुणकारणभागानधिकरणत्तिसंयोगवत् प्राणान्यत्वे सति जानकारणीभूतप्राणसंयोगवत्त्वात् यन्नैवं तत्रैवं यथा घटः, श्रात्म-प्राणसंयोगः प्राण-मनासंयोगो वा शरीर-प्राणसंयोगेनैवान्यथासिद्धो न कारणं, भागाधारत्वं भोगसमवायिकारणातिरिक्तत्ति सकलभोगाधिकरणदृत्तित्वात् प्रमेयत्वादिवदिति तार्किकी रीतिः। अथेच्छाष्टद्रव्यातिरिक्तद्रव्याश्रिता अष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यनैवं तन्नैवं यथानाश्रितमष्टद्रव्याश्रितं वेति कथं व्यतिरेको अष्टद्रव्यातिरिक्तद्रव्यस्य तद्दत्तित्वस्य चामतीतर्व्य
तादवस्यं अतः 'प्राणेति, मन्वात्म-मनमोरपि हेतुत्वेन व्यभिचारइत्यत आह, 'त्रात्म-प्राणेति। न च शरीर-प्राणसंयोगस्य न शरीरप्राणसंयोगत्वेन हेतुत्वं गौरवात् किन्तु प्राणसंयोगत्वेनैव यत्रावच्छेदकतासम्बन्धेन ज्ञानं तच ममवायेन प्राणमयोग इति मामानाधिकरण्यं प्रत्यासत्तिः, तथाचात्म-प्राणसंयोगादिरपि ज्ञानस्वरूपयोग्यएवेति व्यभिचारस्तदवस्थ इति वाच्य। फलोपधानस्य विवक्षितत्वात्। तञ्च कार्य-कारणभावघटकसम्बन्धेन ज्ञानसमानाधिकरणत्वे मति ज्ञानजनकत्वमिति न कोऽपि दोष इति भावः । ननु भोगामधि
(१) तार्किकनीतिरिति क., ब., ग.।
80