________________
तत्त्वचिन्तामणौ
बुद्धेर्व्यतिरेकिणं विनानुपपत्तेः उपायान्तरस्योपायान्तरादूषकत्वाच्च । यहा चेष्टा संयोगासमवायिकारणिका संस्काराजन्यक्रियात्वादिति चेष्टाया असमवायिकरणसंयोगसिद्धौ प्रयत्नवदात्मसंयोग एव पर्यावस्यति प्रयत्नान्वय-व्यतिरेकानुविधायित्वात्, एवं चेष्टाया असमवायिकारणसंयोगाश्रयत्वे सति शरीरत्वं सात्मकत्वं जीवछरौरे साध्यं चेष्टावत्त्वादिति हेतुः चेष्टाविरहश्च घटादौ प्रत्यक्षसिद्धः) चेष्टाविरहात्तदसमवायिकारण
परौरात्मसंयोगजनकं तदवयवात्मसंयोगमादाय मृतशरीरावयवस्य मृतशरीरावयवात्मविभागकारणमृतशरीरात्मसंयोगमादाय मृतशरीरस्य च सात्मकत्ववारणाय 'विशेषेति, भेरौदण्डसंयोगवच्छब्दजनकं मृतशरौरे शरीरान्तरसंयोगमादाय मृतशरौरे सात्मकत्ववारणय 'श्रात्मेति । यद्यपि तस्यापि स्वगोचरप्रत्यक्षजनकत्वेन जौवच्छरौरे मृतशरीरसंयोगस्य दुःखजनकत्वेन च तद्दोषतादवस्थ्यं तथापि आत्मविशेषगुणपदं प्रयत्नपरमित्यदोषः । आत्मवृत्तित्वेन संयोगे विशेष्य इत्यपि केचित्। मनसः सात्मकत्ववारणय 'भोगानधिकरणवृत्तौति, नञ्यस्थाप्येतदेव फलमिति संक्षेपः । 'प्राणान्यत्वे सतौति, प्राणे व्यभिचारवारणाय सत्यन्तं, नाड्यादौ व्यभिचारवारणाय 'ज्ञानकारणीभूतेति, चक्षुःसंयोगादिमादाय तद्दोष
(९) चेठाविरहस्य घटादौ प्रत्यक्षसिद्धेरिति घ० ।