________________
केवलयतिरेकानुमानं ।
१११
दिव्याप्यत्वग्रहात् घटादौ चेष्टादिविरहेण प्राणदिमक्वेच्छादिमत्त्वविरहानुमानमिच्छादिविरहात् इच्छादिप्रयोजकेच्छाद्याधारताघटकेच्छाद्यसमवायिकारणसंयोगविरहानुमान कार्याभाववति कारणाभावनियमात् । न च सात्मकत्वं शरीरत्ति शरीरे बाधकाभावात् शरीरत्ववदित्यन्वयिनैव साध्यसिद्धेः(१) किं व्यतिरेकिणेति वाच्यं । शरीरं सात्मकमिति शरीरविशेष्यकगिमहत्त्वादित्यनुमानेन प्रसिद्धिसम्भवादेवेत्यर्थः । ननु मात्मकत्वस्य माध्यस्य प्रसिद्धावपि नैरात्मत्वस्य साध्याभावस्य घटादावसिद्धत्वात् कथं व्यतिरेकव्याप्तिग्रह इत्यत पाह, ‘खशरीर इति, 'चेष्टेति चेष्टावयवोपचयाद्यन्यतमव्याप्यत्वग्रहादित्यर्थः; तेन निक्रियविनष्टभरौरे न व्यभिचारः, 'चेष्टादिविरहेण' चेष्टाद्यन्यतमसामान्याभावेन शरीरबाधकाभावेन, 'गरौरे बाधकेति गरौरवृत्तित्वाभाववत्तया अप्रमितत्वादित्यर्थः । 'संस्काराजन्येति वेगजकर्मणि व्यभिचारवारणाय, गुरुत्व-ट्रवत्वाजन्येत्यपि बोध्यं, तेन पतन-स्यन्दनयोर्न व्यभिचारः, 'एवञ्चेति, सत्यन्तमात्रस्यात्मन्यपि सत्त्वात्तड्यावृत्तये 'शरीरत्वमिति, तेन शरीरावयवे न व्यभिचारः। 'आत्मभिन्नेति, प्रात्मनः मात्म कत्ववारणाय सत्यन्तं, मृतशरीरस्यापि कदाचिद्भोगाधारतया तड्यावृत्तये 'आत्मविशेषगुणकारणेति, कारणत्वं फलोपधायकत्वं तेन शरीरातासंयोगत्वेन तस्य स्वरूपयोग्यत्वेऽपि न क्षतिः, मृत
(१) सिद्धसाधनादिति घ.।