________________
केवलव्यतिरेक्यनुमान।
द६
रेकाद्यनिरूपणत् असाधारणधर्मेणाप्रतीतपदार्थानुमाने घटत्वादिनापि स्वेच्छाकल्पितडित्याद्यनुमानप्रसङ्ग इति। उच्यते। इच्छाऽसमवायिकारणसिद्धावि
छात्वं संयोगासमवायिकारणकत्ति नित्येन्द्रियग्रामविशेशषगुणवृत्तिगुणत्वसाक्षायाप्यजातित्वात् शब्दत्ववत् स चासमवायिकारणं संयोगः किञ्चिदवच्छिन्नः संयोगत्वात् आत्मसंयोगमावस्येच्छाजनकन्वेऽतिप्रसगादितीच्छाऽसमवायिकारणसंयोगावच्छेदकत्वं सात्मकत्वं शरौरे साध्यते। यहा आत्मानौच्छाधारता महत्
वारणाय वृत्त्यन्तं, स्नेहत्वे व्यभिचारवारणाय 'नित्येन्द्रियग्राह्यति विशेषगुणविशेषणं, नित्येन्द्रियग्राह्यत्वञ्च तन्मात्रग्राह्यत्वमतो न मनसोग्राह्यत्वेन तस्य तद्दोषतादवस्थ्यं, श्रात्मकत्वप्रत्यक्षत्वपचे संख्यात्वे व्यभिचारादाह 'विशेषेति, शब्दजशब्दादिमात्रवृत्तिजातिविशेषे व्यभिचारादाह, 'गुणत्वसाक्षाट्याप्येति, तत्त्वञ्च गुणत्वमाक्षाद्व्याप्यजात्यव्याप्यत्वं, अन्यथा गुणत्वव्याप्यान्यतरत्वादिव्याप्यत्वादसियापत्तिः, जातिपदश्च शब्दजशब्द-संख्यान्यतरत्वादौ व्यभिचारवारणय, समवायसम्बन्धेन विशेषगुणवृत्तित्वलाभाय वा, अन्यथा जन्यमात्रस्य कालोपाधितया संख्यात्वे व्यभिचारतादवस्यादिति संक्षेपः। 'अतिप्रसङ्गादिति अन्यावच्छेदेनापौच्छोत्पत्त्यापत्तेरित्यर्थः, असमवायिकारणसंयोगावच्छेदकत्वस्यैव इच्छाद्यवच्छेदकत्वनियामकत्वादित्यभिमानः, 'इच्छाऽसमवायिकारणेति। न च तादृशसंयोगाद्यवच्छेदकत्वेन प्रकारेण