________________
तत्त्वचिन्तामणौ
न्यूनत्वात् तदनवधारणे तु सत्प्रतिपक्षत्वमिष्टमेव । ननु जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इच्छादिकार्यवत्त्वाद्देति व्यतिरेकिणि साध्याग्रसिद्धौ कथं व्यतिरेकादिनिरूपणं, नैरात्म्यञ्च घटस्य न प्रत्यक्षवेद्यं तस्य तवासामर्थात्, नानुमानगम्यं नैराळ्याप्रतीतावन्वयिनोभावात् सात्मकत्वप्रतीति विना व्यतिरेकिणेऽनुपपत्तिः । अथेच्छा समवायिकारणजन्या कार्यत्वात् तच्च समवायिकारणं पृथिव्याद्यष्टद्रव्यभिन्न पृथिव्यादित्वे बाधकसत्त्वादिति पृथिव्यादिभिन्नात्मसिद्धौ तहत्त्वं जीव
धिकरण-जलाद्यन्यतरत्वस्थ लिङ्गत्वसम्भवादिति भावः । इदमापाततः जले पृथिवीतरभेदस्य बाधेनामिद्धे जलेतरभेदसिद्धौ च दृष्टापत्तेः। वस्तुतस्तु पृथिवीतरभेदस्य विशिष्य कुत्राग्यधिकरणेऽसिद्धेः सिद्धौ चान्वयाप्रतिसन्धानदशायां व्यतिरेक-याप्तिज्ञानहेतुत्वावश्यकलाञ्चेत्येव द्रष्टव्यं । 'एवं' व्यतिरेकव्याप्तिज्ञानस्य हेतुत्वे, 'यतिरेकव्यभिचारादिति साध्याभावस्य हेत्वभावव्यभिचारित्लादित्यर्थः, इदमुपलक्षणं असाधारण्यादित्यपि द्रष्टव्यं, 'तदनवधारणे विति पृथिवीत्वस्थानवधारणे वित्यर्थः । 'इच्छादौति, अवच्छेदकतासम्बन्धन हेतुरिति भावः। 'साध्याप्रसिद्धवाविति, सात्मकत्वस्य जीवच्छरौरमात्रवृत्तित्वात्तस्य पक्षवादिति भावः । 'व्यतिरेकादौति, 'त्रादिना साध्यवैशिष्यस्य परिग्रहः, 'तस्येति, तदभावस्थातौन्द्रियत्वादिति भावः । अप्रसिद्धाभावसाध्य के व्यतिरेक्यस्वित्यत आह, 'सात्मकत्वेति, 'कार्यत्वादिति भावकार्यत्वा