________________
केवलयतिरेकानुमान। चैकव वृत्तौ न विरोधः। यत्तु साध्यप्रसिद्धौ पृथिवीतरभिन्ना तत्साध्याधिकरण-पृथिव्यन्यतरत्वात्तदधिकरणवत् पृथिव्यां तत् साध्यमन्वयिन एव सेत्स्यतीति, तन्त्र, अन्यतरत्वस्यालिङ्गत्वादित्यक्तत्वात, लिङ्गत्वे वा जलादावपि तसिद्धिप्रसङ्गात् । एवं तर्हि पृथिवी जलं पृथिवीत्वात् यन्न जलं तन्न पृथिवी यथा तेज इतिसत्प्रतिपक्षोऽस्त्विति चेत्। न । अजलस्य घटादेः प्रत्यक्षत एव पृथिवौत्वनिश्चये व्यतिरेकव्यभिचारादस्य
भावादौ च न व्यभिचारः, पदार्थविभाजकधर्मात्यन्ताभाववादित्यर्थः इति कश्चित् । 'तत्रेति जलवात्यन्ताभाव इत्यर्थः, 'काप्रसिद्धिरिति, तेजस्वात्यन्ताभाव-वायुखात्यन्ताभावादिममानाधिकरणजलवात्यन्ताभावस्यैव माध्यत्वादिति भावः ।
अन्येतुमतं समाप्य प्रकारान्तरेण माध्यामिद्धिं दर्शयति, किञ्चेति, 'ते चेति, पृथिवीतरत्वं भेदप्रतियोगितावच्छेदकं व्यतिरेकिधर्मत्वात् इत्यत्र तात्पर्य, अन्यथा इंतरप्रतियोगिकभेदप्रसिद्धावपि तेजस्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धेरिति ध्येयं । 'न तु तेजःप्रभृतीति, प्रातिखिकरूपेण चतुर्दशभेदानामभावः साध्य इत्यभिप्रायेणेदं दूषणं, अन्यथा पृथिवौतरभेदाभावस्य पृथिवीतरत्वस्य जले सत्त्वादमङ्गतः। बाधमयाह, 'चतुर्दशेति, अभावमादाय चतुर्दशत्वं बोध्यं, स्थापनानुमाने बाधमुद्धरति, 'चतुर्दशेति । 'जलादावपीति, तत्रापि तत्साध्या
79