SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ तवभिन्तामणी __ “किच्चेतरे तावत् प्रसिद्धा एव ते च भेदप्रतियोगिता मेयत्वादितीतरभेदोऽपि सुग्रह एव । ननु पृथिवी नेतरभेदवती गुरुत्वादिभ्यो जलवदिति प्रतिरोध इति चेत् । न। इतरभेदनिषेधाहीतराभेदः न तु तेजःप्रमत्यभेदः() जल इति दृष्टान्तस्य साध्यवैकल्यात् चतुईशाभेदानां चैकच विरोधेनासम्भवात् चतुर्दशभेदानां 'मिलितानामपौति त्रयोदशत्वाद्यवच्छिन्नानामपौत्यर्थः, 'यत्किञ्चिदेकेति)यत्किञ्चिदेकधर्मावच्छिन्नत्वमित्यर्थः, सच प्रकृते चयोदशत्वादि. संख्यासमानकालौनमपेक्षाबुद्धिविशेषविषयत्वमेवेतिभावः। 'म चेति, भिन्न-भित्राधिकरणस्थानामप्यभावानां मानसोपस्थित्या अपेक्षाबुद्धिविषयत्वप्रकारेण ज्ञानसम्भवात् भित्राधिकरणस्थघटयोर्दो घटाविति प्रतौतिवदिति भावः। तावदभावयोगौति तावदभाववत्तया निश्चितइत्यर्थः, 'कतिपयाभाववान्’ कतिपयाभाववत्तया निश्चितः, ‘माध्यताया इति माध्यतावच्छेदकस्येत्यर्थः, माध्यतावच्छेदकावच्छिन्नवत्तया निचितश्च सपक्ष इति भावः, 'अत्यन्ताभावत्वादिति तेजस्वानियतात्यन्ताभाववादित्यर्थः, तेन तेजोऽन्यत्वप्रकारकप्रमाविशेष्यत्वाभावादौ वस्तुतस्तेजोऽविषया च या चतुर्दशविषया धौव्यक्तिस्तद्विषयत्वात्यन्ता (१) न च तेजःप्रत्यभेद इति ख०, ग०। स च न तेजःप्रत्यभेद इति घ०। (२) 'किषिदेकधम्मावच्छेदोऽहि' इत्यत्र ‘यत्किञ्चिदेकधर्मावच्छेदोऽहि' · इति कस्यचिन्मलपुस्तकस्य पाठ एतेनानुमीयते ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy