________________
साचिकामी वादिति चेत्, सत्यं, अन्वयितुल्यतया व्यतिरेकिणोऽपि सामादन्वयाप्रतिसन्धानदशायर्या व्यतिरेक्युपन्यासस्यापर्यनुयोज्यत्वात् तदुक्तं, पास्तां तावदयं सुहदुपदेशः, केवलव्यतिकिलक्षणं ताववियूंदम् । अथ वा अलादीनां पयोदशान्योन्याभावाः पयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते, अत एवाका व्यतिरेकिणा जलादिमिलितप्रतियोगिकान्योन्याभावाप्रतीतावपि पयोदशान्योन्याभावाः साध्या इति नान्वयित्वासाधारण्ये ।
पति, इदच घटसाधारणपक्षतादशायामित्युक्तं, अन्यथा तु अन्यस्मिन् पक्षे बोध्यं । 'पृथिवौत्वग्रहेति, पचतावच्छेदकप्रकारेण पक्षज्ञानस्थावश्यकत्वात् इति भावः। 'इतरभेदेति, तथाच पक्षस्यैव अन्वथिदृष्टान्नात्वं सम्भवतीति भावः। न प प्रत्यक्षतः पृथिवौत्वग्रहदशाचामितरभेदयहो नावश्यकः प्रतियोगिज्ञानस्य तदा प्रभावादिति वाच्या व्यतिरेकच्याप्तिघटकत्वेन तज्ज्ञानस्य तदानीमावण्यकत्वादिति भावः । 'अन्वयितुल्यतयेति यथा अन्वयव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिज्ञानविरहस्खलेऽनुमितिजनकत्वमनुभवसिद्धं तथा अन्वयव्याप्तिधानविरहस्यले व्यतिरेकयाप्तिज्ञानस्थानुमितिजमकतया अनुभवसिद्धतयेत्यर्थः, 'अन्वयाप्रतिसन्धानेति अन्वयानुपन्यासदभायामित्यर्थः, तदुपन्यासदशायान्तु अधिकेन निग्रहात् पर्य्यनुयोगो भवत्येव इति भावः। 'अयमिति प्रचयिनैव इतरभेदसिद्धा किं व्यतिरेक