________________
केवणव्यतिरेकानुमान।
व्यतिरेकिणा, घटसाधारणपक्षत्वेऽप्यभेदानुमानवत् पक्षस्यापि दृष्टान्तत्वाविरोधात् पक्षान्यत्वं हि तपातन्त्र, किन्तु साध्यवत्तया निश्चितत्वं प्रयोजकं । न च पृथिवीत्वाग्रहे पूर्व गृहीतं यच साध्यं पश्चात् स्मर्यते तब हेतु-साध्यसामानाधिकरण्याग्रहायतिरेक्यवतारइति वाच्यं । हेतोरेव पक्षतावच्छेदकत्वेन घटे पृथिवीत्वग्रहदशायामितरभेदसामानाधिकरण्यग्रहावश्यम्भातद्धर्मिकानुमितौ हद्धर्मिकसंशयस्यैव प्राचीनमते पक्षतात्वादिति भावः । 'अविप्रतिपत्तेरिति यथाश्रुतन्तु न संगच्छते खार्थानुमाने विप्रतिपत्त्यभावेन विप्रतिपत्त्यभावस्य पक्षतावाभावाप्रयोजकत्वात् । 'सामान्येति सकलपृथिवौनिष्ठेनेत्यर्थः, 'विप्रतिपत्तिविषयः' मंशयविषयः, 'पक्षता' पृथिवौत्वावच्छेदेन पृथिवौत्वेनानुमित्युद्देश्यता, 'अननुगमादिति सर्वत्रेतरभेदस्थानिश्चयादित्यर्थः। शकते 'तौंत्यादिना 'चेदित्यन्तेन, 'किं व्यतिरेकिणेति किं व्यतिरेकव्याप्युपन्यासेनेत्यर्थः, अत एवाग्रे व्याप्युपन्यासस्येति संगच्छते, पूर्वमतेऽप्यनुमितित्वमुपपादयति, 'अभेदानुमानवदिति अयं घटः पूर्वानुभूतघटांभिन्नः नघटवृत्तिविलक्षणसंस्थानवत्त्वादित्यादिस्थैर्यसाधकाभेदानुमानवदित्यर्थः । 'पृथिवौवाग्रहदूति यत्र स्थले पूर्व ग्टहीतं माध्यं उद्बोधकमहिना पृथिवीत्वाग्रहे पश्चात् स्मर्य्यते इत्यर्थः, माध्यस्य प्रत्यक्षतादशायां पृथिवौत्वस्यापि प्रत्यक्षमावश्यकमतः सारणपर्यन्तानुधावनं, 'यतिरेक्यवतारः' व्यतिरेकव्याप्युपन्यासः । 'घट
78