________________
६१६
तत्वचिन्तामायौ
रूपेण न पक्षता सर्वचाविप्रतिपत्तेः घटायेकदेशे इतरभेदस्य प्रत्यक्षसिद्धत्वात् तथाचैकदेशे विप्रतिपत्ती सामान्ये इतरभेदसाधने अर्थान्तरं, किन्तु सामान्येन पृथिवौत्वेन यावदेव विप्रतिपत्तिविषयस्तावतामेव पक्षता विशेष्याननुगमात् । तर्हि पृथिवी इतरभिन्ना पृथिवीत्वाइटवदित्यन्वयिनैवेतरभेदस्य सिद्धत्वात् किं
सन्देह-मिषाधयिषयोरन्यतरस्य पक्षतात्ववादिनां प्राचां नय इति शेषः, 'पक्षः' अनुमित्युद्देश्यः । 'सर्वा पृथिवीति सकलपृथिव्या विशेव्यवस्फोरणाय सर्वपदं, पृथिवौत्वरूपेण सकलप्टथिवीविभिण्यकेतरभेदसंशयस्येत्यर्थः, 'तत्प्रकारकेति पृथिवीत्वावच्छिन्नसकलपृथिवौवि
व्यकसिद्धित्वप्रकारकसिषाधयिषायाश्चेत्यर्थः, 'सामान्यतः' पृथिवीत्वरूपेण, ननु घटे विशेषदर्शन-सिद्धिसत्त्वेन कथं संशय-सिषाधयिषयोस्तद्दिषयत्वं ज्ञानादेः स्वरूपमत एव खविषयकेच्छाविरोधित्वादित्यत आह, 'घटत्वेनेति, 'सिद्धिति, 'श्रत इति, 'पर्वते' पर्वतत्वविशिष्टे, इदमुपलक्षणं प्रत्यक्षतः मिद्धिमत्त्वेऽपि अनुमितित्वादिरूपेण संशय-मिषाधयिषयोधिकाभावाञ्च, समानधर्मिकनिश्चयस्यैव संशयविरोधित्वमते समाधत्ते, 'यदेति, 'सर्वत्वेनेति तस्याः पृथिव्या न पक्षतेत्यर्थः, 'अविप्रतिपत्तेः' असंशयात्, ‘विप्रतिपत्तौ' संशये, 'सामान्य इति, मन्देहाविशिष्येऽपौति शेषः, 'इतरभेदसाधने' इतरभेदानुमित्यभ्युपगमे, 'अर्थान्तरं' सिद्धान्तान्तरं, अपमिद्धान्त इति यावत्,