________________
केवलव्यतिरेक्यनुमानं ।
संशय-सिषाधयिषयोरभावादिति वाच्यं सवा पृथिवी इतरभिन्ना न वेति संशयस्य तत्प्रकारकसिषाधयिषायाश्च सामान्यताघटविषयत्वात् घटत्वेन विशेषदर्शनं सिद्धिर्वा अतस्तेनरूपेण संशय-सिषाधयिषे न स्तः पृथिवौत्वेन ते भवतः एव धूमवान् वह्निमानिति धूमवत्वेन वहिनिश्चयेऽपि पर्वते वह्निसंशयवत्, यद्दा सर्वत्वेन
वच्छेदेन तदन्यधर्मावच्छिन्नविशेष्यकानुमितौ हौत्यर्थः, 'तत्' तदन्यधर्मावच्छेदेन तदन्यधर्मावच्छिन्नखसमानविशेष्यकमिद्धेः प्रतिबन्धकत्वं, 'उद्देश्यायाः' उद्देश्यानुमितिविशेष्यतावच्छेदकावच्छिन्नविशेव्थिकायाः, उद्देश्यानुमितिश्च मनस्वावच्छिन्नविशेष्यकसमूहालम्बनानुमितिः, 'मिद्धृत्वात्' सत्त्वात्, 'अंशतः सिद्धमाधनं' अंशतः सिद्धेरेवोपधायक साधनं, वाक्यत्व-मनस्वावच्छिन्नविशेष्यकसमूहालम्बनानुमितेरनुपधायकं माधनमिति यावत्। ननु लाघवात्तद्धर्मिकमिद्धित्वेनैव तद्धर्मिकानुमितिसामान्यं प्रति प्रतिबन्धकता धर्मिविशेषान्तर्भावस्थावश्यकत्वादित्यत आह, अन्यथेति यदि तर्मिकसिद्धित्वेनैव नद्धर्मिकानुमितिसामान्य प्रति विरोधित्वं तदेत्यर्थः, 'अनुमानमात्रेति हेतु-साध्यसहचारघटकतया अधिकरणत्वरूपेण निखिलसाध्याधिकरणे साध्यवत्त्वविषयकव्याप्तिज्ञानजन्यानुमितिमात्रोच्छेदापातादित्यर्थः, 'पक्षस्येति सप्तम्यर्थ षष्ठी, 'सिद्धस्यैव' सहचारघटकतया निश्चितस्यैव, 'माध्यत्वात्' तादृशानुमितौ विधेयत्वात् । 'न चेति,