________________
६९०
तत्त्वचिन्तामो
सिद्धसाधनम्, अन्यथानुमानमात्रोच्छेदात पक्षस्य सिद्धस्यैव साध्यत्वात्। न च घटः कथं पक्षः साध्यनिश्चयेन
विधेये प्रकारत्वादित्यभिमानः, 'त्रयोदशभिनेतौति पृथिवीतरत्वावच्छिन्नप्रतियोगिकभेदप्रकारकबुद्धेरित्यर्थः, 'व्यतिरेकिसाध्यत्वात्' व्यतिरेकिण एव माध्यत्वात्, एवकाराद्यथोक्तहेतुकान्वयिव्यवच्छेदः । 'सर्वा पृथियौति, पृथिवौत्वस्यावच्छेदकत्वस्फोरणय सर्वपदं, 'इत्युद्देश्यप्रतौतेः' इत्याकारकफलौभूतानुमितिसमानाकारप्रतीतेः, पृथिवीत्वावच्छेदेन पृथिवौत्वधर्मितावच्छेदकक पृथिवीतरभेदप्रकारकप्रतीतेरिति यावत्, तथाच तद्धर्मावच्छेदेन यद्धर्मधर्मितावच्छेदककानुमितिं प्रति तद्धर्मावच्छेदेन तद्धर्मधर्मितावच्छेदककमिद्धेरेव प्रतिबन्धकतया घटत्वावच्छेदेन घटे सिद्धिमत्त्वेऽपि पृथिवौत्वावच्छेदेन पृथिवीत्वधर्मितावच्छेदककानुमितौ अविरोध इति भावः । ननु तद्धर्मावच्छेदेन तद्धर्मावच्छिन्नविशेष्यकानुमितिं प्रति तदन्यधर्मावच्छेदेन तदन्यधर्मावच्छिन्नखममानविशेष्यताकमिद्धिरपि प्रतिबन्धिका अनित्ये वामनसे वाङ्मनोऽन्यतरत्वादित्यादौ वाक्यतावच्छेदेन वाक्यत्वावच्छिन्नविशेष्यकसिद्धेरपि मनस्वावच्छेदेन मनस्वावच्छिन्नविशेष्यकसमूहालम्बनानुमितिप्रतिबन्धकत्वात् तथाच घटत्वावच्छेदेन घटत्वावच्छिन्नविशेष्यकसिद्धिसत्त्वे पृथिवीत्वावच्छेदेन पृथिवौत्वरूपेण घटे कथमनुमितिरित्यत आइ, 'पक्षतावच्छेदकनानात्वे हौति तद्धर्मावच्छेदेन तद्धर्मावच्छिन्नविशेष्यकत्वे मति तदन्यधर्मा