________________
केवलव्यतिरेक्यनुमान।
६१३
तावच्छेदकनानात्वे हि तत्, अतरवानिले वाचनसे इत्यानित्या वागितिबुझेरुद्देश्यायाः सिद्धत्वादंशतः
स्तम्भान्तरवच्चाक्षुषः स्थादित्यर्थः, स्तम्भत्वस्य महत्त्वोद्भूतरूपवत्त्वनियतत्वादिति भावः । 'न पिशाचानुपलम्भः स्यात्' न सर्वः पिशाचोलौकिकमाक्षात्काराविषयः स्यात्, पिशाचत्वं लौकिकमाक्षात्काराविषयत्वव्याप्यं न स्यादिति यावत्, तथाच पिशाचत्वस्य लौकिकसाक्षात्काराविषयत्वव्याप्यत्वान्यथानुपपत्त्या स्तम्भत्वं न पिभाववृत्तौति यथोक्रनियमे न किमपि बाधकमिति भावः । वस्तुतस्तु पनसाम्रादिस्तम्भसाधारणस्य स्तम्भत्वस्य पिशाचवृत्तित्वे पनसत्वामत्व-पिशाचत्वमादाय साङ्कऱ्यांपत्तेः किन्तु स्तम्भत्वं श्रामत्व-पनसत्वा दिव्याप्यं नाना, तच म पिशाचवृत्ति पिशाचोऽपि यदि स्तम्भस्तदा तयाप्यस्तम्भव पिशाचत्ववंदतीन्द्रियमेव तदत्यन्ताभावो न क्वापि लौकिकाध्यक्षगम्यइति यथोक्तनियमे न किमपि बाधकं इत्येव तत्त्वं । यथोकनियमस्य प्रवृत्त्यवयवव्यावृत्तिरस्मकते सिद्धान्तरहस्ये अभावग्राहकयोग्यताविचारे अनुसन्धेया। 'दादाभिनेति विशेषणमिति द्वादशभेदानपचे विशेषणैकृत्येत्यर्थः, 'समवायभेदमाधनादिति समवायावृत्तिधर्मवत्त्वादिरूपसमवायभेदमाधका तोरित्यर्थः, 'अश्वयिन एवेति अश्वयसहचारज्ञानजन्यव्याप्तिज्ञानादेवेत्यर्थः, 'भेदसिद्धिरिति, अस्विति भेषः, किं व्यतिरेकिणेतीति किं व्यतिरेकमहचारज्ञानजन्यव्याप्तिशामस्थानुमितिकरणत्वेनेत्यर्थः । 'जलादिभिन्ना मतीति, विशिष्टाधिकरणकवैशिष्यबुद्धौ सामानाधिकरण्यसम्बन्धेन विशेष्यतावच्छेदकस्य