________________
केवलष्यतिरेक्यनुमान।
६११
रिति किं व्यतिरेकिणेति वाच्यं । जलादिभिन्ना सती समवायभिन्नेति बुड्डावपि त्रयोदशभिन्नेति बुद्धेय॑तिरे
देव जलपरमाणौ न पृथिवीवाभावलौकिकप्रत्यक्षं परमाणोरयोग्यतया तत्र चक्षुषा पृथिवौत्वारोपासम्भवादित्यत आह, 'अधिकरणइति जलपरमाणवित्यर्थः, 'प्रतियोगिसत्त्वञ्च' पृथिवौत्वाभावस्य प्रतियोगिसत्त्वञ्च पृथिवौत्वाभावस्य प्रतियोगिसत्वमपि, ‘तर्कितं' विशेष्यतया सम्भवदाहा-रोपकं । नन्वेवं तव नयेऽपि योग्याधिकरणमादाय लौकिकसन्निकर्षदशायां उपनौतपरमाणुप्रकारको न कुतः पृथिवौवाभावलौकिकचाक्षुषः, कुतो वा वायौ रूपं नास्ति वायौ स्नेहो नास्तीत्याधुपनौतवायुप्रकारकोरूपमामान्याभाव-स्नेहसामान्याभावयोन लौकिकचाक्षुषः, कुतो वा परमाणौ महत्त्वं नास्तौति मनसि महत्त्वं नास्तीत्युपनौतपरमाणु-मन:प्रकारको न महत्त्वाभावलौकिकचाक्षुषः, कुतो वा मनसि पवनीयपरमाणौ वा नोद्भूतरूपाभावस्य लौकिकचाक्षुषः, अभावानां योग्यत्वात् अन्यथा अन्यत्रापि तल्लौकिकचाक्षुषानुपपत्तेः विना च कारणाभावं कार्याभावानभ्युपगमात् । अथ यस्मिन्नधिकरणे पक्षवृत्तिधर्मविशेषितेन प्रतियोगिग्राहकतावच्छेदकावच्छिन्नातिरिक्तविशेषितेन च तत्संसर्गकाधिकरणत्वसम्बन्धेन तद्धर्मावच्छिन्नत्वेन हेतुत्वात्तदिन्द्रियजन्यसाक्षात्कारवत्वमापादयितुं शक्यते तदधिकरण एव तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावनिष्ठलौकिकविषयतासम्बन्धेन तदिन्द्रियजन्यतादृशाभावप्रत्यक्षमुत्पद्यते न तु अन्यत्राधिकरण इति