________________
६९.
तत्वचिन्तामणौ
भ्योऽपि भेदसिद्धौ हादशभिन्नेति विशेषणं दत्वा समवायभेदसाधनादन्वयिन एव पृथिव्यां त्रयोदशभेदसिद्धि
वायौ रूपसामान्याभावसाक्षात्कारो न भवतीत्यादिसकलप्रामाणिकसिद्धान्तप्रवादान्यथानुपपत्त्या तथैव सिद्धान्तस्य निर्णतत्वादेवं सर्वत्र । न चैवं सिद्धान्ते स्थूलजले पृथिवौत्वाभावप्रत्यक्षानन्तरं पृथिवौत्वाभावसामान्यलक्षणप्रत्यासत्त्या पृथिवौत्वाभावप्रकारेण परमाणोचाक्षुषो न स्यात् इति वाच्यं । तत्र पृथिवौत्वाभावनिष्ठालौकिकप्रकारतानिरूपितविषयताया एव परमाणावभ्युपगमात् तनिष्टलौकिकप्रकारतानिरूपितविषयतायास्तु सन्निकृष्टस्थूलजलमात्रवृत्तित्वादिति भावः। एतच्चोपलक्षणं निरूक्ततत्तदिन्द्रिययोग्यत्वं तत्तदिन्द्रियजन्यलौकिकसाक्षात्कारविषयत्वं तत्तदिन्द्रियजन्यलौकिकमाक्षात्काराप्रतिबन्धकत्वं वा, नाद्यः भूतलादौ घटादिसामान्याभावस्थाप्यचाक्षुषतापत्तेः दैवात् त्वगादिमात्रटहौतघटादिव्यतरपि तत्प्रतियोगिकुक्षिनिक्षिप्तत्वात् । न द्वितीयः प्रतिबन्धकत्वाननुगमेनाननुगमतादवस्थ्यात् तत्तगन्धवत्त्व-तत्तद्रसवत्त्वावच्छिन्नतत्तद्र्व्यव्यक्त्यभावस्थापि घ्राणज-रामनादिप्रत्यक्षविषयतापत्तेः द्रव्यस्य प्राणजादिप्रत्यक्षप्रतिब
वकत्वे मानाभावात् गन्ध-तत्समवेतघ्राणजादिकं प्रति घाणसंयुक्तसमवाय-घ्राणमयुक्तसमवेतसमवायादेहेतुतयैव द्रव्यस्य घाणजप्रत्यक्षापादनासम्भवात्। ननु समानेन्द्रियजन्य-प्रतियोगितावच्छेदकविशिष्टप्रतियोग्याहार्यारोपस्याभावलौकिकप्रत्यक्षहेततया तदभावा