SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६०० तत्वचिन्तामो एथिवीत्वाभावग्रहप्रसङ्गात् अधिकरणे प्रतियोगिसत्वञ्च तर्कितं यदि हि स्तम्भः पिशाचः स्यात् स्तम्भव प्रत्यक्षविषयः, अयं गुणादिर्यदि चक्षुःसंयुक्तमहत्त्ववदुद्भूतरूपवत्समवेतत्वे सति रूपवान् स्यात् चाक्षुषवान् स्यात्, घटो यदि महत्त्वोद्भूतरूपवत्त्वे चक्षुरादिसंयुक्रत्वे च मति स्नेहवान् स्यात् चाक्षुषवान् स्यात्, पृथिवीपरमाणुर्यदि उद्भूतरूपवत्त्वे चक्षुरादिसंयुक्तत्वे च सति महत्त्ववान् स्थात् चाक्षुषवान् स्यात्, महान्वायुर्यदि महत्त्वे सति चक्षुरादिसंयुक्रत्वे च मत्युद्भूतरूपवान् स्यात् चाक्षुषवान् स्यात्, इत्यापादने मूलशैथिल्यविरहादित्यर्थः, 'न विति तु शब्दः अतइत्यर्थे, नातो निरुकयोग्यतासहितैव निरुतानुपलब्धिरभावलौकिकप्रत्यक्षे कारणं व्यतिरेकव्यभिचारादित्यर्थः । ननु योग्य व्यवृत्तिगुण-कर्म-मामान्यादिषु रूपसामान्याभावादीनां लौकिकप्रत्यक्षमेवामिद्धं पराणुसंसर्गाभावलौकिकप्रत्यक्षवारणाय लाघवान्निरुक्कयोग्यताया एवाभावनिष्ठतया अभावलौकिकप्रत्यक्षकारणत्वकल्पनादन्यथा तत्र तेषां लौकिकप्रत्यक्षाभ्युपगमे मनोवावादावपि तेषां लौकिकप्रत्यक्षापत्तिवारणय यत्राधिकरणे तादृशापादनं न सम्भवति अनन्ततत्तदधिकरणभेदस्याधिकरणनिष्ठतया वक्ष्यमानक्रमेण तत्तदभावलौकिकप्रत्यक्षकारणत्वकल्पने महागौरवापत्तिरित्यत बाह, 'अन्यथेति निरुतयोग्यतायाएवाभावलौकिकप्रत्यक्षकारणत्वे इत्यर्थः, 'रूपाभावप्रतौतिवदिति, रूपाभावपदं महत्त्वसमानाधिकरणोद्भूतरूपाभावपरं घटादिवृत्तितत्तद्रपाभावपरं वा, पूर्वपक्षिनये तस्यातीन्द्रियप्रतियोगिकत्वेनाप्रत्य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy