________________
६०७
केवलव्यतिरेक्यनुमान। विरोधी सेोऽभावं ग्राहयति न तु योग्यातुपलब्धिमाचम् अध्यथा वाया रूपाभावप्रतीतिवत् जलपरमाणे
च वृत्त्यन्तं प्रतियोगिताविशेषणं, तत्तगन्धवत्त्व-तत्तद्रसवत्त्वाधवच्छिनप्रतियोगिताकतत्तद्र्व्यव्यक्त्यभावस्य चाक्षुषतावारणाय प्रथमं तत्तत्पदं, द्वितीयतत्तत्पदञ्च तादृशस्यैवाभावस्य प्राणज-रामनादिप्रत्यक्षतापत्तितादवस्यवारणायेति भावः । नन्वेवं नयनोन्मौलनानन्तरं स्तम्भः पिशाचो न भवतीति प्रत्ययोन स्यादित्यत आह, 'नयनेति, 'लिङ्गग्रहोपक्षौणत्वादिति लिङ्गग्रहजन्यत्वादित्यर्थः, नयनोन्मौलनानुविधानन्तु लिङ्गग्रहार्थमिति भावः । निरुतयोग्यत्वस्थ व्यतिरेकव्यभिचारान कारणत्वसम्भव इत्याह, 'योह्यनुपलम्भ इति, 'हि' यस्मात्, 'य' देशः, 'अनुपलम्भः' प्रतियोगितावच्छेदकसम्बन्धसंसर्गक-प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिमत्तानिश्चयाभावविभिष्टः, न विद्यते उपलम्भोयत्र इति व्युत्पत्तः, 'अधिकरण इति निर्धारणे सप्तमी, तथाचाधिकरणेषु मध्ये निरुक्तनिश्चयाभावविशिष्टो योदेश: 'प्रतियोगिमत्त्वविरोधी' प्रतियोगितावच्छेदकसम्बन्धसंसर्गकाधिकरणत्वसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिमत्तया आपादितसाक्षात्कारकः, 'मः' देशः, 'अभावं ग्राहयति' अतीन्द्रियप्रतियोगिकस्याप्यभावस्य लौकिकसाक्षात्कारविषयो भवति, यथा योग्य व्यवृत्तिगुण-कर्म-सामान्यादिकं रूपसामान्याभावस्य, घटादिः स्नेहसामान्याभावस्य, तद्भूतरूपवान् परमाणुमहत्त्वसामान्याभावस्य, महान् वायुरुद्भूतरूपसामान्याभावस्य च लौकिक