________________
तत्व चिन्तामणौ
मौलनानन्तरं स्तम्भः पिशाचेो न भवतौति प्रतीतेबधकबलेन वायुर्व्वीतौति वल्लिङ्गग्रहे । पक्षौणत्वादिति चेत् । न । ये । ह्यनुपलम्भोऽधिकरणे प्रतियोगिमत्त्व -
६०६
गुरुतरघटाभावादिवत्तादृशधर्मावच्छिन्नप्रतियोगिताकजात्यभावमाचस्यैवाप्रत्यक्षत्वं सर्वसिद्धमेव दीधितिकृतापि पदार्थखण्डने तथा लिखनात् श्रन्यथा सिद्धान्तेऽप्यगतेः किन्तु (१) घटत्व-पटत्वादिजातीनां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकाभाव एव लौकिकप्रत्यचगम्यः जात्यभावप्रत्यचत्वप्रतिपादकः प्राचां ग्रन्थोऽपि तादृशजात्यभावपर : (९) इत्यतो न तद्विरोधोऽपि (९) । जातिनिष्ठतत्तद्व्यक्तित्वञ्च (४) तादात्म्य सम्बन्धेन तत्तज्जातिरेवेति तद्योग्यमेव । तत्तद्गन्ध-तत्तद्रवत्त्वाद्यव च्छिन्नप्रतियोगिताक-तत्तद्द्रव्यव्यक्त्यभावस्य प्राणज - रामनादिसाचात्कारवारणाय वायौ रूपमामान्याभावस्य चाचुषसाक्षात्कारवारणाय ५)
(१) नन्वतीन्द्रियधमवच्छिन्न प्रतियोगिताका भावस्यातीन्द्रियत्वे घटत्वं नास्ति इत्यादि प्रत्यक्षप्रतीतेः का गतिरित्यत याह, किन्विति । (२) तत्तद्यक्तित्वावच्छिन्न घटत्वादिजात्यभावाभिप्रेत इत्यर्थः । (३) न प्राचीन ग्रन्थ विरोधोऽपीत्यर्थः ।
(8) ननु घटत्वगततद्दक्तित्वं तत्तादात्म्य विशिष्टघटत्वत्वं यतस्तदोषतादव - स्थमित्यत या, जातिनिष्ठेति ।
(५) बनुद्भूतरूपस्य चक्षुर्योग्यत्वाभावात् रूपसामान्याभावस्य न चच्क्षु'योग्य मात्रवृत्ति प्रतियोगिताकत्वमिति तात्पर्यं ।