________________
केवलस्थ्यतिरेकानुमानं ।
(૫
प्रत्यक्षः अतीन्द्रियप्रतियोगि काभावत्वात् परमाणु संसगीभाववत् येोग्यानुपलब्धेरभावग्राहकत्वात् नयने - शङ्कते, 'नन्विति, 'अतीन्द्रियप्रतियोगिका भावत्वादिति श्रतीन्द्रियप्रतियोगिकत्वेन पृथिवीतरत्वस्यापि श्रतीन्द्रियतया श्रतीन्द्रियधर्मावच्छिन्नप्रतियोगिताकत्वाच्चेत्यपि द्रष्टव्यं, 'परमाणु संसर्गीभाववदिति, परमान्वन्योन्याभाववच्चेत्यपि बोध्यं । ननु परमाणु संसर्गःभावादेरपि घटादौ न कथं लौकिकाध्यक्षगम्यत्वं तत्र तदधिकरणविशेष्यक-प्रतियोगितावच्छेदकसम्बन्धसंसर्गक-प्रतियोगितावच्छेदका - वच्छिन्नप्रतियोगिमत्त्वोपलम्भसामान्याभावस्यैव तत्तदधिकरणेऽभावग्राहकत्वात्तस्य च तत्रापि सम्भवादित्यत श्राह 'योग्यानुपलब्धेरिति तत्तदिन्द्रिययोग्यतासहिताया एव निरुतानुपलब्धेस्तत्तदिन्द्रियजाभावलौकिकप्रत्यचजनकत्वादित्यर्थः, तत्तदिन्द्रिययोग्यधर्मावच्छिन्नतत्तदिन्द्रिययोग्यमात्रवृत्तिप्रतियोगिताकाभावत्वमेव चाभावस्य ततदिन्द्रिययोग्यत्वं तच्च विषयनिष्ठतया प्रभावत्वावच्छिन्नलौकिकविषयतासम्बन्धेन चाचुषादिरूपतत्तदिन्द्रियजाभावप्रत्यचोत्पत्तौ हेतुः परमानुसंसर्गाभावादेः प्रत्यक्षानुत्पत्त्या तथैव कल्पनात् । गुरुतरत्वविशिष्टघटत्वाद्यवच्छिन्नप्रतियोगिताकगुरुतर घटाभावादेः चाचुषादिलौकिकसाक्षात्कारवारणाय श्रवच्छिन्नान्तं प्रतियोगिताविशेघणं, घटत्वत्व - पटत्वत्वादेः प्रतियोगितावच्छेदकधर्मस्यातीन्द्रियतया (१)
(१) घटत्वत्वं घटेतरावृत्तित्वे सति सकलघटवृत्तित्वं तस्य च घटेतरा - न्तर्गतपरमान्वाकाशादिरूपातीन्द्रियघटिततया यतीन्द्रियत्वमिति
तात्पर्यं ।