________________
अथ केवलव्यतिरेक्यनुमानसिद्धान्तः ।
-deos उच्यते घटादावेवेतरसकलभेदस्य प्रत्यक्षतः प्रसिद्धिः घटो न जलादिरितिप्रतीतेः। नन्वयमन्योन्याभावो न
अथ केवलव्यतिरेक्यनुमानसिद्धान्तरहस्यं । 'इतरसकलभेदस्येति पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदस्येत्यर्थः, 'न जलादिरिति न पृथिवीतर इत्यर्थः। यद्यपि पृथिवीतरत्वस्य पृथिवीमामान्यभेदरूपस्य भेदविशेषणतया अतीन्द्रियपृथिवौघटितत्वात्तदवच्छिन्नान्योन्याभावोघटादौ कथं लौकिकप्रत्यक्षगम्यः अन्यथा गुरुतरघटान्योन्याभावोऽपि लौकिकप्रत्यक्षगम्यः स्यात्(१) । तथापि खावच्छिनप्रतियोगिताकत्वसम्बन्धेन पृथिवौत्ववद एव पृथिवीतरत्वं तत्र च पृथिव्या न प्रवेश इति भावः। इदमुपलक्षणं पृथिवीतरत्वरूपेण पृथिवौतरस्य भेदत्वरूपेण भेदस्य च खण्डशः प्रसिद्धत्वेन विशेष्ये विशेषणमिति न्यायेन पृथिवीतरभेद इति निरधिकरणकसिद्धिसम्भव इत्यपि बोध्यं । अयोग्यधर्मानवच्छिन्नयोग्यमात्रवृत्तिप्रतियोगिताकत्वमभावप्रत्यक्ष तन्त्रमिति प्रागैनमते
(१) तथाच यथा गुरुतरघटान्योन्याभावस्य अतीन्द्रियगुरुत्त्वघटितत्वेन
न प्रत्यक्ष तथा एथिवीतरभेदस्थापि अतीन्द्रियथिवीघटितत्वेन न नप्रत्यक्षमित्याशयः।