________________
केवलयतिरेक्यनुमान। तर्हि संशयप्रसिङ्घ साध्यं तस्य च न व्यतिरेकनिश्चायकत्वमित्युक्तत्वात् स्वार्थानुमाने तदभावाच ।
इति श्रीगङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्यहितीयखण्डे केवलव्यतिरेक्यनुमानपूर्वपक्षः।
प्रतिवाद्यभिमतसाध्यविरोधिकोटिप्रतिपादकेत्यर्थः, 'वादिवाक्यादिति वाद्युक्तप्रतिज्ञावाक्यादित्यर्थः, 'अपूर्वार्थप्रतिपादकादिति पूर्वाप्रतीतस्थापि विभिष्टार्थस्य विभिध्ये विशेषणमिति रौत्या प्रतिपादकादित्यर्थः, 'व्यतिरेकिवैयदिति व्यतिरेकिणो व्यतिरेकसहचारज्ञानअन्यव्याप्तिज्ञानस्य तत्रानुमितिजनकत्वाभ्युपगमवैयादित्यर्थः, 'संशयः' तदुत्तरं संशयः स्थादित्यर्थः, 'तनिश्चयार्थ' अग्टहीताप्रनाण्यकतन्निश्चयार्थ, 'व्यतिरेको' व्यतिरेकिणो यथोक्तव्याप्तिज्ञानस्य तचानुमितिजनकत्वाभ्युपगमः । 'संशयप्रसिद्धमिति अप्रामाण्यमंशयाक्रान्तनिश्चयविषयीभूतमित्यर्थः, 'तस्य च' तादृशनिश्चयस्य च, 'उक्तत्वात्' सकलप्रामाणिकैरुतत्वात्, 'तदभावाच्चेति वादिवाक्यात् माध्यप्रसि द्वेरसम्भवाच्चेत्यर्थः,।
इति श्रीमथुरानाथतर्कवागीश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्ये केवलव्यतिरेक्यनुमानपूर्वपक्षरहस्यं ।