________________
केवस्तव्यविरेक्यनुमानं ।
६०१
साध्यत्वे सपक्षाभावादिति चेत् । न । साध्यनिश्रये हि साध्यव्यतिरेकनिश्चयोभवत्येव साध्यसन्देहे तयतिरेकसंशयस्य वज्जलेपत्वात् तथाच संशयरूपा - साध्यसिद्धिरिति शिष्यबन्धनम् । एतेन पृथिवी जलादिभ्योभिनेति विप्रतिपत्तिरूपवादिवाक्यादाकाङ्क्षादिमतेोऽ
ऐकाधिकरण्यं, ऐकाधिकरण्य विशिष्टत्रयोदशान्योन्याभावा इत्यन्वयः, 'पृथिव्यामवगत इति पृथिव्यां प्रसिद्धाः सन्तो व्यतिरेकादिनिरूपका इत्यर्थः । 'साध्यनिश्वयार्थमिति, पृथिव्यां साध्यप्रसिद्धेः संशयरूपत्वादिति भाव: । 'समुदितेति ऐकाधिकर ण्यावच्छिन्नेत्यर्थः, 'तद्व्यतिरेकसंशयस्येति, तथाच जलादावपि साध्यव्यतिरेकसन्देहात् कथं तत्र व्यतिरेकव्याप्तिनिश्चयः स्यादिति भावः । इदमापाततः पृथिव्यां साध्यसन्देहसत्त्वेन तत्र व्यतिरेक निश्चयासम्भवेऽपि जलादौ तद्व्यतिरेकनिश्चये बाधकाभावात् न ह्येकत्र सन्देहे सर्वत्र सन्देहः, पृथिव्यां रूपादिसन्देहेऽपि वायैौ तदभावनिश्चयस्यानुभविकत्वात् जले जलभेदाभावग्रहसत्त्वेन विशेषदर्शनसत्त्वाच्च एकदेश विरहनिश्चयस्यापि समुदायसंशयविरोधित्वात् । न च प्रतियोगिमत्तानिश्चयस्याभावनिश्चयहेतुत्वात् कथं जले तयतिरेकनिश्चय इति वाच्यम् । तादृशकार्य्य-कारणभावान्तरे मानाभावात् लाघवेन प्रतियोगितावच्छेदकनिश्चयमात्रस्याभावप्रत्यचहेतुत्वात् । श्रथ जलादौ साध्याभावनिश्चयः कथं स्यात् मनोभेदस्यापि प्रविष्टत्वेनायोग्यतया प्रत्यचासम्भवात् ।
76