________________
केवध्यतिरेक्यनुमान । પહ૦ पणं, न वा पक्षत्वं, न वा लिङ्गजन्यसाध्यविशिष्टतज्ज्ञानं तेषां साध्यज्ञानजन्यत्वात् । अथ साध्यं प्रसिद्धं तदा यत्र प्रसिद्धं तच हेतोरवगमेऽन्वयित्वं अनवगमे असा"धारण्यम्। किञ्च इतरभेदा न स्वरूपं अधिकरण-प्रतियोगिनाः पृथिवी-जलाधोरनुमानात् प्रागेव सिद्धेः । नापि वैधमा जलादिनिष्ठात्यन्ताभावप्रतियोगित्वं,
'नन्विति, 'साध्यं' साध्यतावच्छेदकविशिष्टसाध्यं, 'न वा पक्षत्वमिति तस्य साध्यसन्देहरूपत्वात् साध्यसिषाधयिषाघटितत्वाद्धेति भावः। 'माध्यविशिष्टतज्ज्ञानमिति साध्यतावच्छेदकावच्छिन्नविशिष्टतज्ज्ञानमित्यर्थः, 'साध्यज्ञानेति माध्यतावच्छेदकप्रकारकसाध्यज्ञानेत्यर्थः। न च प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्याभावधीहेतुतया माध्यतावच्छेदकविशिष्टसाध्यामिद्धिं विना व्यतिरेकज्ञानासम्भवेऽपौतरभेदस्य च खण्डशः प्रसिद्धिसत्त्वेन विशेथे विशेषणमिति
रौत्या माध्यतावच्छेदकप्रकारकसाध्यविशिष्टज्ञानसम्भवदति वाच्यम्। माध्यतावच्छेद करूपेण साध्यज्ञानं विना तेन रूपेण माध्यप्रकारकामुमितिर्न जायत इति सर्वानुभवसिद्धत्वात्। अत एव माध्यतावच्छेदकरूपेण माध्यप्रकारकानुमितेविशिष्टनिरूपितवैशिध्यविषयताशालितानियम इति सिद्धान्त इति भावः। 'अन्वयित्वमिति अन्वयसहचारज्ञानादेव व्याप्तिज्ञानमित्यर्थः, किं गुरुतरव्यतिरेकसहचारज्ञानस्य हेतुत्वेनेति भावः । ददमुपलक्षणं प्रागुक्तव्यतिरेकलक्षणस्याप्यसम्भव इत्यपि बोध्यं । ननु अनवगमेऽपि वस्तुगत्या नासाधारण्यं