________________
सत्वचिन्तामणौ
ननु पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादिति व्यतिरेकिणि साध्यमसिद्ध तथाच न व्यतिरेकिनिरू- .
परामर्शति अन्वयव्याप्तिप्रकारकपक्षधर्मताज्ञानेत्यर्थः । नन्वन्वयव्याप्तिपरामर्शवयतिरेकव्याप्तिपरामशीनन्तरमप्यनुमितेरनुमिनोमौत्यनुव्यवसायसिद्धतया व्यतिरेकव्याप्तिपरामोऽपि तद्धेतरित्यत आह, 'अन्यथेति उभयपरामर्मस्यैवानुमितिलावच्छिन्नं प्रति हेतुत्व इत्यर्थः, 'अननुगमः' परस्परं व्यभिचारः। अनुमितिमात्र इति अनुमितिलावच्छिन्ने इत्यर्थः, 'व्याप्तिज्ञानस्य' अन्वय-व्यतिरेकान्यतरव्याप्तिज्ञानस्य, 'प्रयोजकलादिति प्रतियोगिलादिज्ञानत्वेन ज्ञानत्वेन वा प्रयोजकवादित्यर्थः । 'अतिप्रसङ्ग इति पक्षधर्मताज्ञानं विनापि प्रतियोगिबादिज्ञानमात्रात् अनुमितिप्रसङ्ग इत्यर्थः, 'अनुमितिविशेषेति अन्वय-व्यतिरेकपरामर्शरूपानुमितिविशेषसामग्रीत्यर्थः, तत्कार्यतावच्छेदके अन्वय्यनुमितित्वे व्यतिरेक्यनुमितिवे च परस्परव्यावृत्तानुमितित्वव्याप्यजाती तादृशपरामर्शाव्यवहितोत्तरानुमितिले वेति भावः। ननु तथापि सामान्यसामग्रोमर्यादया सामान्यका-पत्तिदुंवारैवेत्यत आह, 'विशेषेति, 'अन्वयौति अन्वय्यनुमिति-व्यतिरेक्यनुमितिरूपविशेषदयेत्यर्थः, 'नास्येवेति, अतिप्रसङ्ग स्थल इति भेषः(१)।
(१) दौषितिकृत् नास्त्येवेत्यन्तं के वजव्यतिरेकिमूलं व्याख्याय अवयवादि.
हेत्वाभासान्तं मूलं व्याख्यानवानिति ।