________________
केवलयतिरेक्चनुमार्ग। करण्यरूपत्वाड्यानेरिति, सत्यं, गन्धवत्वावच्छेदेनेतरभेदस्य साध्यत्वात्। अतरवाचार्यः पक्षतावच्छेदकस्य न हेतुत्वमनुमेने पृथिवीत्वमितरभेदव्याप्यमितिप्रतीतावपि सर्वा पृथिवौतरभिन्नेति पृथिवौविशेष्यकबुद्धव्यतिरेकिसाध्यत्वाच्च । यद्दा व्यतिरेकव्याप्तेरेवान्वयेन गम्य-गमकभावः, साध्याभावव्यापकसाधनाभावाभा
पृथिवौत्वस्यैव हेतुत्वात्, तथाच सिद्धसाधनं अनुमित्यापि पचतावछेदक-साध्ययोः मान गधिकरण्यस्यैव विषयौकरणादित्यभिमानः । अभिमानमभ्युपेत्यैव समाधत्ते, गन्धवत्त्वेति गन्धवत्त्वं पक्षतावच्छेदकोकरणौयमित्यर्थः, हेतुश्च पृथिवौत्वमिति भावः । 'अत एवेति यतगव व्यतिरेकिणि अन्वयव्याप्तिज्ञानस्य हेतुतया पक्षतावच्छेदकस्य हेतुत्वे सिद्धसाधनमत एवेत्यर्थः, 'पक्षतावच्छेदकस्येति, पृथिवीतरेभ्यो भिद्यते इत्यादाविति शेषः, किन्तु गन्धवत्त्वादेरेव हेतुत्वमति भावः ।
केचित्तु प्रकारान्तरेण व्याप्तिज्ञाने पक्षतावच्छेदक-माध्ययोः मामानाधिकरण्यभानं निराकरोति, 'अत एवेति एतदर्थमेवेत्यर्थः, पृथिव्यामितरभेदे साध्ये इति शेषः, 'पक्षतावच्छेदकस्य' पक्षवाचकपृथिवीपदशक्यतावच्छेदकस्य पृथिवीत्वस्येति यावत्, 'न हेतुत्वमिति, किन्तु गन्धवत्त्वस्यैव हेतुत्वमिति शेषः, तथाच पृथिवौत्वमेव पक्षतावच्छेदकीकरणीयं हेतश्च गन्धवत्त्वमिति भाव इति प्राः।