________________
५६२
तत्त्वचिन्तामो
नियामकत्वात् अन्षय-व्यतिरेकिवत् । मन्येवं व्याप्तिग्रह एव पृथिवीतरभिन्नेति भासितं नियतसामानाधि
नियतसाध्यव्यतिरेकसहचारः साध्याभावव्यापकत्वे मति साध्याभावसहचारः, 'अन्वयव्याप्तिरेव ग्रहयते' इति, 'अन्वयव्याप्तिः' हेतव्यापकसाध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकवत्त्वरूपा व्याप्तिः, 'रयते' व्यतिरेक्यनुमितिकरणज्ञानेन विशेष्ये विशेषणमिति रौत्या विषयौक्रियते, तथाच व्यतिरेकसहचारज्ञानजन्यतादृशव्याप्तिज्ञानमेवानुमितौ करणमित्यर्थः, उदाहरणेन च नियतव्यतिरेकसहचार एव प्रदर्श्यते इति नार्थान्तरत्वं व्यतिरेकव्याप्तिज्ञानानन्तरञ्चाग्रहीतासंसर्गक खण्डशः पक्ष-साध्ययोनिमात्रमिति भावः । अथाभावयोः सहचारज्ञानात् कथं प्रतियोगिनोर्व्याप्तिग्रहः एकनिष्ठ सहचारज्ञानेनान्यनिष्ठव्याप्तिज्ञानजननेऽतिप्रसङ्गादित्यत आह, 'प्रतियोग्येति तत्तविच्छिन्नाभावत्वेन तत्तद्धविछिन्नाभावयोः सहचारज्ञानस्य तत्तदुर्मरूपेण तत्तद्धर्माश्रययोर्व्याप्तिग्रहं प्रत्येव जनकत्वान्नातिप्रसङ्ग इत्यर्थः, 'अन्वय-व्यतिरेकिवदिति अन्वययोः प्रतियोगितावच्छेदकरूपेण प्रतियोगिनोः सहचारज्ञानस्य तड्यतिरेकवरूपेण तद्व्यतिरेकयोाप्तिग्रहं प्रत्येव जनकत्ववदित्यर्थः, एतच्चापाततः नियमांशज्ञानस्य व्याप्तिघटकौभूततावत्पदार्थापस्थितिविधया व्याप्तिग्रहहेतुत्वेऽपि व्यतिरेकसहचारज्ञानस्य नद्धेतत्वे मानाभावादिति ध्येयं । 'नन्वेवमिति, ‘एवं' अन्वयव्याप्तिज्ञानस्य हेतुत्वे, 'पृथिवीतरभिन्नेतौति पचतावच्छेदकीभूते पृथिवौवे माध्यस्येतरभेदस्य मामानाधिकरण्यं भामितमित्यर्थः,