________________
केवलव्यतिरेक्यनुमानां
५६५
प्राप्तकालत्वमिति। उच्यते। निरुपाधिव्यतिरेकसहचारेणान्वयव्यतिरेव गृयते प्रतियोग्यनुयागिंभावस्य
'माध्यव्याप्यत्वं माध्यवदन्यावृत्तित्वं, तच्चान्ततः साध्ये प्रसिद्धं हेतावनुमेयमिति । तदसत्। केवलान्वयित्वग्रहदशायामसम्भवेन व्यतिरेकव्याप्तिज्ञानवत् माध्यवदन्यावृत्तित्वज्ञानस्यापि अनुमितिहेतुत्वासम्भवादिति ध्येयं)। मनु निरुतान्वयव्याप्तिज्ञानस्यैवानुमितिदेतत्वे 'केवलव्यतिरेकी वसत्मपञ्चः' इति प्रागुक्तलक्षणमसम्भवि व्याप्तिग्रहस्यैव माध्यान्वयग्रहरूपत्वादित्यत श्राह, ‘एवमिति, ‘यचानुमितिः' यस्मिन्ग्रहे मत्यनुमितिः यवाहकरणिकानुमितिरिति यावत् । ___ केचित्तु नन्वेवमन्वयिपरामर्श-व्यतिरेकिपरामर्शयोः को भेददत्यत भाद, ‘एवमिति, 'यत्रानुमितिः' यस्मिन् परामर्श सत्यमुमितिरित्याहुः।
'यतिरेकव्याप्युपन्यासस्येति उदाहरणवाक्येन व्यतिरेकव्याप्यपन्यासस्येत्यर्थः, 'अन्वयव्याप्यनुकूलतयेति अन्वयव्याप्तिसाधकहेतुतयेत्यर्थः, 'अप्राप्तकालत्वमिति, माध्योपन्यामानन्तरमेव हेतूपन्यासस्य कथकसम्प्रदायसिद्धत्वात्। न चान्वयव्याप्तिरेव प्रथममुपन्यमनौया तच कथन्तायां तत्साधनाय व्यतिरेकव्याप्तिरुद्भाव्येति वाच्यं । कथकसंप्रदायविरोधादिति भावः । 'निरुपाधौति हेत्वभावे नियतमाध्यव्यतिरकसहचारज्ञानेनान्वयव्याप्तिघटकतावत्पदार्थविषयकेणेत्यर्थः,
(१) केवलान्धयिन्यसम्भवायथा व्यतिरेकव्याप्तिहानं न कारणं तथा
साध्यवदन्यारत्तित्वज्ञानमपौतौतिक।