________________
५९.
चिन्तामय
व्याप्त्युपन्यासस्यार्थान्तरतापत्तेः अन्वयव्याप्यनुकूलतया च तदुपन्यासे अन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्या
इत्यस्य सुवचत्वात् खण्डशः प्रसिद्ध्या केवलान्वयिन्यपि भ्रमरूपतज्ज्ञानसम्भवात् ।
केचित्तु ‘अनुमितित्वासिद्धेरिति, किन्तु श्रर्थापत्त्याख्यविजातौयज्ञानमेव तदिति भावः । न चैवं 'गौरवादित्यग्रिममूलमसङ्गतं श्रर्थापत्तित्वाख्यातिरिक्रवैजात्याभ्युपगमे तदवच्छिन्नं प्रत्येव तज्ज्ञानस्य हेतुत्वावश्यकत्वात् वैजात्यकल्पनस्य पुनरधिकत्वादिति वाच्यम् । एतदस्वरमादेव 'केवलान्वयीत्याद्यभिधानादित्याहुः । तदसत् । श्रर्थापत्त्याख्यविजातीयज्ञानस्यार्थापत्तिग्रन्थ एवाग्रे निरसनीयत्वादिति ध्येयम् ।
'अथेति, 'साध्यव्याप्यत्वं' साध्यान्वयव्याप्यत्वं तथाच व्यतिरेकव्याप्तिज्ञानस्य साध्यान्वयव्याप्यनुमितिद्वारा अनुमितिकरणत्वमिति भावः । श्रत्र वृत्तिमत्त्वेन विशेषणान्नावृत्तौ व्यभिचारः । न च तथापि व्यतिरेकिणि हेतुव्यापकसाध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकवत्त्वरूपान्वयव्याप्यत्वमप्रसिद्धं कथमनुमेयं प्रकृततावेव प्रसिद्धं चेल्लतमनुमानेनेति वाच्यम् । यत् यद्धर्मावच्छिन्नाभावव्यापकाभावप्रतियोगितावच्छेदकयडूर्मवद्भवति तत् तद्धर्मावच्छिन्नव्यापकतावच्छेदकतद्धर्मावच्छिन्नसमानाधिकरणदृतितद्धर्मवद्भवतीति यत्तदुद्भ्यां सामान्यतो व्याप्ट्या तस्याप्रसिद्धत्वेऽप्यनुमितिसम्भवादिति भाव: (१) । यत्तु
(१) तस्याप्रसिद्धस्याप्यनुमितिसम्भवादिति घ० ० |