________________
केवलव्यतिरेक्यनुमानं ।
व्यापकाभावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम्, एवं व्यतिरेकव्यात्यान्वयव्याप्तिमनुमाय यचानुमितिः स एव व्यतिरेकौत्युच्यते, तन्न, अन्वयव्याप्तेर्गमकत्वे व्यतिरेक
re
नोत्पत्तिनियमसम्भवादिति भावः । 'ढणारणीति यथा तृणारणिमणीनां परस्परं व्यभिचारितया वन्हित्वव्याप्यधर्मावच्छिन्नं प्रत्येव हेतुत्वं न तु वहित्वावच्छिन्नं प्रति तथाचाप्यनुमितित्वव्याप्यधीवच्छिन्नं प्रत्येव तयोः कारणत्वमित्यर्थः, 'व्यतिरेकिसाध्य इति व्यतिरेकव्याप्तिपरामर्शोत्तरं जायमानज्ञानदत्यर्थः, 'अनुमितित्वासिद्धेरिति, श्रग्टहीतासंसर्गकं खण्डशः साध्यपक्षयोः ज्ञानमेव तदिति भावः । ' उभयसिद्धेति निरुक्तान्वयव्याप्तिप्रकारकपचधर्मताज्ञानस्य उभयसिद्धानुमितिकारणस्याभावादित्यर्थः । ' न च साध्याभावेति न त्वम्वयव्याप्तिरित्यर्थः, विनिगमकाभावादिति भावः । 'केवलान्वयौति तव केवलान्वथित्वग्रहदशायामसम्भवाचेत्यर्थ:, यथाश्रुतन्तु न सङ्गच्छते साध्यसाधनभेदेन कार्य कारणभावस्य विभिन्नतया केवलान्वयिन्यवयव्याप्तिज्ञानमेव हेतुः व्यतिरेकिणि तु व्यतिरेकव्याप्तिज्ञानमेव
व्यापाराणामिति, तथाच प्रमितिचतुष्टयं प्रति प्रमाणचतुष्टयस्यान्यतमत्वेनैव कारणत्वं, व्यापारविशेषस्य प्रमितिविशेषं प्रति खातन्त्रेण कारणत्वेनैवातिप्रसङ्गवारणमिति भावः । न च व्यापार विशेषस्य प्रमितिविशेषं प्रति कारणत्वेनैवातिप्रसङ्गभङ्गे प्रमाणस्यान्यथासिद्धत्वमिति वाच्यं । व्यापारेण व्यापारियोऽन्यथासिद्धत्वाभावादिति ।