________________
१८
तत्त्वचिन्तामो
कृप्ततत्कारणस्याभावात् । न च साध्याभावव्यापका. भावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यं । गौरवात् केवलान्वयिन्यभावाच्च । अथ साध्याभाव
इति शेषः, तथाच व्यतिरेकसहचारज्ञानजन्यव्यतिरेकव्याप्तिपरामर्शस्थानुमित्यजनकतया तादृशव्याप्तिज्ञानस्य नानुमितिकरणत्वमिति भावः । नन्वन्वयव्याप्तिपरामर्श-व्यतिरेकव्याप्तिपरामर्शयोरुभयोरेवानुमितिजनकत्वमित्याशङ्कते, 'न चेति, व्याप्तपक्षधर्मत्वं' निरुक्तान्वयव्याप्तिविशिष्टहेतुमत्त्वं, 'साध्याभावेति साध्याभावव्यापकाभावप्रतियोगिहेतमत्त्वमित्यर्थः, 'अनुमितिप्रयोजक' अनुमितिकारणभूतज्ञानविषयः, 'अननुगमादिति उभयसाधारणकारणतावच्छेदकधर्माभावादित्यर्थः, प्रत्येकरूपेण कारणत्वे च(१) परस्परं व्यभिचार इति भावः । 'तथा' उभयसाधारणकारणतावच्छेदकधर्मः, 'एकप्रमाणेति इन्द्रियादीनां चतुर्णामेव प्रमाणानामिन्द्रियाद्यन्यतमत्वरूपैकधर्मणानुमित्यादिप्रमितिचतुष्टयाद्यन्यतमत्वावच्छिन्नं प्रति कारणत्वापतेरित्यर्थः, व्यापाराणा(२) विशेषतः कारणत्वेनैवानुमितित्वाधवच्छि(१) अन्वयव्याप्तिज्ञानत्वेन व्यतिरेकव्याप्तिज्ञानत्वेन चेत्यर्थः, तथाच
अन्वयव्याप्तिज्ञानमात्रजन्यानुमितौ व्यतिरेकव्याप्तिज्ञानाभावात् यतिरेकव्याप्तिज्ञानमात्रजन्यानुमितौ च धन्वयव्याप्तिज्ञानाभावात् पर'स्परं व्यभिचार इति भावः । (२) मनु प्रमाणचतुछयस्य अन्यतमत्वेन प्रमितिचतुछयान्यतमत्वावच्छिन्नं
प्रति कारणत्वे प्रत्यक्षप्रमाणसत्त्वे कथमनुमिति!त्पद्यत इत्यत बाह,