________________
पूज
तत्त्वचिन्तामणौ
खाव्यवहितपूर्ववर्तिनिश्चयविषयतावच्छेदकव्यतिरेकितावच्छेदकधर्मावच्छिन्नविधेयताकानुमितिकरणत्वं, स्वपदं अनुमितिपरं, तादभानुमितिवश्चान्वय-व्यतिरेक्यनुमितित्वं, केवलव्यतिरेक्यनुमानेऽतिव्याप्तिवारणय प्रथममवच्छेदकान्तं तच माध्यवत्त्वेन निश्चयस्य कापि विरहात्, अव्यवहितपूर्ववच्च क्षणत्रयसाधारणं तेन व्याप्तिनिश्चयपूर्व माध्यनिश्चयसत्त्वेऽपि अन्वय-व्यतिरेकित्वं, केवलान्वयिसाध्यकानुमानेऽतिव्याप्तिवारणाय द्वितीयमवच्छेदकान्तं। न च व्यतिरेकसहचारेणग्वयव्याप्तिरेव ग्रह्यते इति वक्ष्यमाणमते यत्र व्यतिरेकसहचारज्ञानमात्रजन्यव्यापकसामानाधिकरण्यरूपान्वयव्याप्तिज्ञानादनुमितिस्तत्र केवलव्यतिरेक्यनुमानलक्षणस्थाव्याप्तिः अन्वय-व्यतिरेक्यनुमानलक्षणस्य चातिव्याप्तिः व्याप्तिग्रहस्यैव माध्यान्वयग्रहरूपत्वादिति वाच्यं । एतदखरसेनैव तन्मतमपहाय 'यदेति कृत्वा व्यतिरेकसहचारज्ञानजन्यष्यतिरेकव्याप्तिज्ञानस्यैव गमकत्वस्य वक्ष्यमाणत्वात् नव्यनये लाघवात् साध्याभाववदवृत्तित्वरूपान्वयव्याप्तिज्ञानस्यैवानुमितिहेततया व्यतिरेकसहारज्ञानजन्यतादृशान्वयव्याप्तिज्ञानस्यैव व्यतिरेक्यनुमितावपि हेतुत्वाच्च । एतच्च तच्चानुमानं त्रिविधं' इत्यस्यानुमानविभागपरत्वपचे व्याख्यातं, तस्यानुमितिविभागपरत्वपक्षे तु 'असत्मपक्ष इत्यस्य प्रसन्खाव्यवहितपूर्वकाले खाधिकरणे असन् सपचः माध्यवत्त्वेन क्वापि निश्चयोयस्थानुमित्यात्मकग्रहस्य स इत्यर्थः, तथाच खममानाधिकरण-खाव्यवहितपूर्ववर्तिनिश्चयविषयतानवच्छेदकव्यतिरेकितावच्छेदकधर्मावच्छिन्नमाध्यकानुमितित्वं केवलयतिरेक्यनुमितिलमिति भावः । खपदमनुमितिपरं प्रत्येकदल