________________
केवलव्यतिरेकयनुमानं ।
५-३
भावः। मनु तस्य लक्ष्यमेव दुर्लभमनुमितिपूर्वं चणचयाभ्यन्तरे साध्यवत्त्वनिश्चयाभावे सहचारज्ञानाभावात् व्याप्तिज्ञानस्यैवासम्भवादित्यतोलक्ष्यं दर्शयति, ‘यचेति, अनुमितिजनन इति शेषः, 'व्यतिरेकसहचारेण' व्यतिरेकसहचारज्ञानेन जन्यत्वं तृतीयार्थः, 'व्याप्तिग्रहः ' व्याप्तिग्रह एव, सहकारीति शेषः, तथाच यन्मानं व्यतिरेकसहचार'ज्ञानजन्यव्याप्तिज्ञानमाचसहकारेणानुमितिं जनयति तदेव लक्ष्यं, महकारित्वञ्च न भेदगर्भं (१९) तेन व्याप्तिज्ञानस्यापि संग्रह इति भावः । श्रत्र लक्षणे साध्यं व्यतिरेकित्वेन विशेषणीयं तेन सपचासत्त्वदशायामपि व्यतिरेक सहचार भ्रमजन्य केवलान्वयिसाध्यकानुमाने नातिव्याप्तिः, साध्यत्वञ्च व्यापारानुवन्धिविधेयत्वं स्वकरणकानुमितिविधेयत्वमिति यावत् तेन व्याप्तिज्ञानादिरूपेऽनुमाने पृथिवीतरभेदादेरविधेयत्वेऽपि न चतिः, तथाच स्वसमानाधिकरण - स्वजन्यानुमित्यव्यवहितपूर्व्ववर्त्तिनिश्चयविषयतानवच्छेदको यो व्यतिरेकि - तावच्छेदकोधस्तदवच्छिन्नविधेयता कानुमितिकरणत्वं केवलव्यतिरेक्यनुमानत्वं स्वं लक्ष्यत्वेनाभिमतं स्वसमानाधिकरण- खाव्यवहितपूर्व्ववर्त्तिनिश्चयविषयतानवच्छेदकव्यतिरेकितावच्छेदकधर्मावच्छिनविधेयताकानुमितिकरणत्वं केवलव्यतिरेक्यनुमानत्वमिति तु निष्कर्षः वारयमनुमितिप्रवेशे प्रयोजनविरहात्, स्वपदमनुमितिपरं । - ग्वयव्यतिरे क्यनुमानलचणन्तु स्फुटत्वान्रोनं तच स्वसमानाधिकरण
(२) तथाचात्र तत्सहकारित्वं तज्जन्यफलजनकत्वमाचं न तु तद्भिन्नत्वविशिष्ट तज्जन्यफलजनकत्वरूपमतः स्वस्यापि खसहकारित्वमिति
भावः ।